________________
जिनस्तुतयः
स्तुतिचतुर्विशतिका नतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभ० 'कर्मधारयः।। स्फुरन्तश्च ते रश्मयश्च स्फुर० 'कर्मधारयः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभ० 'तत्पुरुषः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारे सरभ० ' तत्पुरुषः' । अम्भसि रोहन्तीत्यम्भोरुहाणि ' तत्पुरुषः । अम्भोरुहे इवाम्भोरुहे । क्रमौ च ते अम्भोरुहे च क्रमाम्भोरुहे 'कर्मधारयः ।। सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे यस्याः सा सरभ० 'बहुव्रीहिः। । तत्सम्बो० हे सरभ० । परमं वसु ययोस्तौ परपरमवसू । अतिशयेन परमवम् परमवसुतरौ । अङ्गाज्जायते इत्यङ्गजी 'तत्पुरुषः । परमवसुतरौ अङ्गजौ यस्याः सा परम० 'बहुव्रीहिः ।। सम्यग् नाशितः सन्नाशितः ' तत्पुरुषः' । आरावेण सन्नाशितः आराव० ' तत्पुरुषः। । अरातीनां भारोऽरातिभारः 'तत्पुरुषः। । आरावसन्नाशितोऽरातिमारो यया सा आरा० 'बहुव्रीहिः' । न जितोऽजितः । तत्पुरुषः । तस्मिन्नजिते । अम्बिकासम्बोधनपक्षे तु न जिता अजिता तत्पुरुषः । तत्सम्बो० हे अजिते ! । हारेण हारवद् वा तारा हारतारा ' तत्पुरुषः' । बलं च क्षेमं च बलक्षेमे इतरेतरद्वन्द्वः ।। बलक्षेमे ददातीति बलक्षेमदा ' तत्पुरुषः । क्षणं रुचिर्यस्याः सा क्षणरुचिः 'बहुव्रीहिः ।। क्षणचिवद् रुचिराः क्षणरुचि० 'तत्पुरुषः । चञ्चन्त्यश्च ताः सटाश्च चञ्चत्सटाः 'कर्मधारयः । उरवश्व ताः चञ्च
सटाश्च उरुचञ्चत्सटाः 'कर्मधारयः' । क्षणरुचिरुचिराश्च ता उरुचञ्चत्सटाश्च क्षणरुचि. 'कर्मधारयः।।क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचि. 'तत्पुरुषः।। उत्कृष्टथासौ कण्ठश्च उत्कृष्टकण्ठः 'कर्मधारयः।। (क्षणरुचिरुचिरोरुचञ्चत्सटासडून्टश्चासौ उत्कृष्टकण्ठश्च क्षणरुचि० 'कर्मधारयः।। ) क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठेन उद्भटःक्षणरुचि० 'तत्पुरुषः । तस्मिन् क्षणरुचि० । भव्यश्वासौ लोकश्च भव्यलोकः 'कर्मधारयः। तं भव्य० । गजानामरिर्गजारिः । तत्पुरुषः । तस्मिन् गजारौ । न सन्ना असन्ना 'तत्पुरुषः। शितं च तदारं च शितारं 'कर्मधारयः।। अतिशयेन भाऽतिभा 'तत्पुरुषः। शितारवदतिभा यस्याः सा शिता० ' बहुव्रीहिः ।। नीहाराश्च ताराश्च नीहा० । इतरेतरद्वन्द्वः ।। नीहारतारावद् वलक्षो नीहार० 'तत्पुरुषः । तस्मिन्बीहा० । न विद्यते मदो यस्याः साऽमदा 'बहुव्रीहिः। इति काव्यार्थः ॥४॥
॥इति श्रीमदृद्धपण्डितश्री५श्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवर्धमानस्वामिनः स्तुतेर्व्याख्या ॥ इति श्रीशोभनस्तुतित्तिः सम्पूर्णा ॥ अथ प्रशस्तिः
श्रीविजयसेनसूरी-वरस्य राज्ये सुयौवराज्ये तु ।। श्रीविजयदेवसूरे-रिन्दुरसाब्धीन्दुमितव ॥१॥-आर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org