________________
स्तुतिचतुर्विशतिका
[ २४ श्रीवीर. समधीत्य वाचकेन्द्र-श्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किश्चित् ॥ २॥-आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत शोभनस्तुते।तिम् । जयविजय सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् ॥३॥-आर्या श्रीशोभनस्तुतेत्तेफेन्याग्रं प्रतिपाद्यते ।
पश्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया ॥४॥-अनुष्टुप्
ग्रन्या २३५०। सि. ४०–सरमसनतेति । हे अम्बिके !-अम्बिकानाम्नि देवि ! त्वं-मवती मन्यलोक-मक्किननं परम्-उत्कृष्टं यथा स्यात् तथा सुतरा अव-रक्षेत्यर्थः । 'अव रक्षणे' धातोः 'आशी:प्रेरणयोः (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । अत्र ' अव' इति क्रियापदम् । का की ? । त्वम् । के कर्मतापन्नम् १ । भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ?। परम् । कथम् ।। सुतराम् । त्वं कथंभूता। 'परमवसुतराङ्गना अतिशयेन परमवस-उत्कृष्टतेजसौ अङ्गजौ-पुत्रौ यस्याः सा तथा । पूर्वभवापेक्षया एतद् विशेषणम् । पुनः कथंमता ? । 'आरावसन्नाशितारातिमारा' आरावो-ध्वनिविशेषः तेन सन्नाशितः-सम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा । पुनः कथंभता है। ' मासिनी-मासनशीला । पुनः कथंभूता ।।' हारतारा' हारेण-मौक्तिकस्रना तारा-उज्ज्वला । पुनः कथंभता ।' बलक्षेमदा' बलं-सामथ्र्य क्षेम-कल्याणं अनयोः ' इतरेतरद्वन्द्वः', ते ददातीति तथा । पनः कथंभूता! | 'भसन्ना' न सन्ना असन्ना, अखिन्नेत्यर्थः । पुनः कथंभूता ? । 'शितारातिमा' शितं-तनकृतं यदारं-पित्तलं तस्येव अतिमा-अतिशयेन प्रमा यस्याः सा तथा । " रीरिः (तिः ) स्त्रियामारकूटो न स्त्रियामथ ताम्रकं" इत्यमरः (श्लो० १९००)। पुनः कथंभूता ? । ' अमदा' न विद्यते मदो-दो यस्याः सा, मदरहितेत्यर्थः । कस्याम् ! । मासि-दीप्तिविषये। अवशिष्टानि सर्वाणि अम्बिकायाः सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे ' सरमसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरमसंसवेगं नतः-प्रणतो यो नाकिनारीजनः-देवाङ्गनालोकः तस्य उरोजपीठीषु-स्तनपीठिकासु लुठन्तः-इतस्ततः परिस्खलन्तस्ताराः-उज्ज्वला ये हारा:-कण्ठाभरणानि तेषां स्फुरन्तः-प्रसरन्तो ये रश्मयः-मयूषास्तैः सारेकर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तस्याः सम्बोधनं हे सरमस० । "सारः शबलवातयोः" इति विश्वः । हे संस्थिते !-अधिरूढे ! । कस्मिन् ? । ' गजारौ' गजानामरिः गजारिः तस्मिन्, केसरिणीत्यर्थः । कथंभूते गजारौ । अनिते-केनाऽप्यनभिभूते । पुनः कथंभूते ! । 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिः-तडित् तद्वत् रुचिरा-मनोज्ञा उरवो-विशालास्ताश्च ताश्चञ्चन्त्यः-दीप्यमाना याः सटाः-केसरास्ताभिः सङ्कटो-व्याप्तः स चासावुत्कृष्टः-अतिशायी यः कण्ठो-निगरणं तेनोद्भटः-कराल. स्तस्मिन् । पुनः कथंभूते ? । रानिते-शोभिते । पुनः कथंभूते ! । ' नीहारतारावलक्षे' नीहारो-हिम तारा-नक्षत्राणि अनयोः । द्वन्द्वः', तद्वद् वलक्षः-धवलस्तस्मिन् । " अवदातगौरशुभ्रवलक्षधवलार्जुनाः" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org