________________
जिन स्तुतयः ]
स्तुतिचतुर्विंशतिका
१९१
हैम: (का० १, श्लो० २९ ) । हे अम्ब ! - मातः । । ' अम्बादीनां घौ ह्रस्वः' (सा० सू० २०१ ) इत्यनेन ह्रस्वत्वम् । दण्डकच्छन्दोऽदः । ' तदूर्ध्वं चण्डवृष्ट्यादि - दण्डकाः परिकीर्तिताः' इति च तल्लक्षणम् ॥ इति श्रीमहाराजाधिराजपादसाहश्री अ कब्बर सूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थ करमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधान साघनप्रमुदितपातिसाहश्री अकब्बर जलालदीनप्रदत्तषुस्फ हमाराभिधानमहोपाध्यायश्रीसिद्ध (द्धि) चन्द्रगणिविरचितायां शोभनाचार्यनाम्ना विहितायाः शोभनस्तुतेः टीकायां श्रीमहावीरतीर्थकरस्येयं स्तुतिवृत्तिः । तत्समाप्तौ च समाप्ता श्रीशोभनस्तुतिवृत्तिः ॥
सौ० वृ० - सरभसेति । हे 'अम्ब!' हे मातः! । 'अम्बादीनां धौ ह्रस्वः ' ( सा० सू० २०१ ) इति वचनात् हे अम्ब! | हे अम्बिके । सिद्धायिकापरना स्त्रि ! देवि ? । पुनः (?) सरभसं - सहर्ष सवेगं यथा स्यात् तथा नतः प्रणतो- यो नाकिनां देवानां नारीजनः - स्त्रीगणः तस्य उरोजाः स्तनाः तेषां पीठी-स्थली तस्यां लुठन्तः इतस्ततः चलन्तो ये ताराः-निर्मला हाराः - मौक्तिकमालाः तेषां स्फुरन्तः - देदीप्यमानाः रश्मयः - किरणाः तैः कृत्वा सारं प्रधानं कर्बुरं वा क्रमाम्भोरुहं चरणपद्मं यस्याः सा सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहार स्फुरद्र श्मिसारक्रमाम्भोरुहा, तस्याः सं० हे ' सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्र श्मिसारकमाम्भोरुहे । त्वं भवती भव्यलोकं सुतरां परं प्रकर्षेण अव इत्यन्वयः । 'अव' इति क्रियापदम् । का कर्त्री ? | 'त्वम्' | 'अव' रक्ष | के कर्मतापन्नम् ? | 'भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ? ।' सुतरां ' अतिशयेन शोभनतरं भवति यथा स्यात् तथा । किंविशिष्टा त्वम् ? । परमं प्रकृष्टं अतिशयेन वसु-तेजो यस्य स तादृशः अङ्गजः - पुत्रो यस्याः सा 'परमवसुतराङ्गजा ' यद्वा पमवसुतरौ द्वौ अङ्गजौ यस्याः सा 'परमवसुतराङ्गजा' । पुनः किंविशिष्टा त्वम् ? | आरावेण - शब्देन हुँकारेण सन्तः - विद्यमाना नाशिताः - त्रासिताः अरातीनां शत्रूणां भाराः समुदाया यया सा 'आरावसन्नाशिवारातिभारा' । पुनः किंविशिष्टा त्वम्? | हारवत् तारा- उज्ज्वला निर्मला 'हारतारा'। पुनः किंविशिष्टा त्वम् ? । बलं शरीरसामर्थ्य क्षेमं कल्याणं तद्द्द्वयं ददातीति 'बलक्षेमदा' । पुनः किंविशिष्टा त्वम् ? । 'भासिनी' तेजोभरैर्दीप्ता - भासनशीला । हे 'अजित! | ( अनभिभूते । ) । हे ' संस्थिते ! ' अध्यासिते ! । कस्मिन्? | 'गजारौ' गजस्य अरिः-शत्रुः गजारिः तस्मिन् गजारौ, सिंहाधिरूढा इत्यर्थः । पुनः किंविशिष्टा त्वम् ? | 'अमदा' मदरहिता, निरहङ्कारिणीत्यर्थः । कस्याम् ? । 'भासि' स्वप्रभायाम् । पुनः किंविशिष्टा त्वम्? ‘असन्ना’ अखिन्ना - श्रमरहिता । पुनः किंविशिष्टा त्वं ? । शितः- तीक्ष्णीकृतः य और ः-निर्धूमाङ्गारः स्वर्णस्याड्कुशाग्रं वा तद्वदतिशयेन भा-प्रभा यस्याः सा ' शितारातिभा'। किंविशिष्टे गजारौ ? | क्षणरुचि:- विद्युत् तद्वद् रुचिरा मनोहरा उरवः - महत्यः चञ्चन्त्यो- दीप्यमानाः तादृश्यो याः सटाः ताभिः सङ्कटः- सङ्कीर्णः तादृशः उत्कृष्टो यः कण्ठः- निगरणः तेन उद्भटः- प्रधानः क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटः तस्मिन् क्षणरुचिरुचिरोरुचश्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटे । पुनः किंविशिष्टे गजारौ ? :
१ श्री भाण्डारकर ऑरियेन्टल इन्स्टिटयुट्संज्ञक संस्थायाः प्रत्यां तु अयं पाठः - इति निरतीचारचारित्राः, सौजन्यगुणशालिनः । भ्रातरो भावचन्द्राहा, आद्यादर्शमलीलिखन् ॥ भद्रं भूयाल्लेखकपाठकयोः ।
या पुस्तके दृष्टं, तादृशं लिषि ( ख ) तं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
फाल्गुना सितद्वितीयायां लिपीकृतं पं० सुमतिविजयगणिशिष्यभुजिष्यमुनिरामविजयेन
श्रीः ॥ कल्याणमस्तु ॥ श्रीः । छः ॥
संवत् १७५८ वर्षे वाचनार्थे श्रीवरहानपुरखरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org