SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ २९५ स्तुतिचतुर्विशतिका [ २४ श्रीवीरनीहारो-हिमं तारा-नक्षत्राणि तद्वलक्षणो मलः (?) नीहारतारावलक्षः तस्मिन् ‘नीहारतारावलक्षे। राजिते अजिते नीहारतारावलक्षे एतद्विशेषणत्रयं गजारौ इत्यस्य कृतं, एतद्विशेषणत्रयं अम्बिकायाः सम्बोधनेऽपि भवति । एतादृशा अम्बिका त्वं भव्यलोकान् अव-त्रायस्व । इति पदार्थः । अथ समासः-"रभसं (सो?) वेगहर्षयोः” इति (विश्व०)वचनात् रभसेन सहितं सरमसं, सरभसं यथा स्यात् तथा नतःसरभसनतः, नाकं अस्यास्तीति नाकी, नाकिनो नार्यः नाकिनार्यः, नाकिनार्य एव जनः (नाकिनारीजनः),सरभसनतश्चासौ नाकिनारीजनश सरभसनतनाकिनारीजनः, उरसि जायन्ते इति उरोजाः, सरभसनतनाकिनारीजनस्य उरोजाः सरभसनतनाकिनारीजनोरोजाः, सरभसनतनाकिनारीजनोरोजानां पीठी सरभसनतनाकिनारीजनोरोजपीठी, सरभसनतनाकिनारीजनोरोजपीठ्यां लुठन्तः सरभसनतनाकिनारीजनोरोजपीठीलुठन्तः, ताराश्च ते हाराश्च तारहाराः, सरमसनतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराः, स्फुरन्तश ते रश्मयश्च स्फुरद्रश्मयः, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुद्रश्मयः,क्रमावेव अम्भोरुहं क्रमाम्भोरुहं, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारं-प्रधानं कर्बुरितं वा क्रमाम्भोरुहं यस्याःसा सरभसनतनाकिनारीजनोरोजपीठालुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहा, तस्याः सं० हे सरभसनतनाकिनारीजनोरोजपीठीलुउत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमं च तद् वसुच परमवसु, अतिशयेन परमवसु इति परमवसुतरः,परमवसुतर:अङ्गजो यस्याःसा परमवसुतराङ्गजा, यद्वा परमश्च वसुतरश्च । परमवसुतरौ नामानौ (2) अङ्कजौ यस्याः सा परमवसुतराङ्गजा । अरातीनां भारः अरातिभारः, नाशितश्चासौ अरातिभारश्च नाशितारातिभारः, आरवेण-हुंकारेण सन्-विद्यमानः नाशितारातिभारो यया सा आरावसनाशितारातिभारा ।हारवत् तारा हारतारा । बलं च क्षेमं च बलक्षेमे, बलक्षेमे दवातीति बलक्षेमदा ।क्षणं रुचिः यस्याःसा क्षणरुचिः, क्षणचिवद् रुचिराः क्षणरुचिरुचिराः, क्षणरुचिरुचिराश्च ता उरवश्च क्षणरुचिरुचिरोरवः,क्षणरुचिरुचिरोरवश्च ताः चश्चन्त्यश्च क्षणरुचिरुचिरोरुचञ्चन्त्या, क्षणरुचिरुचिरोरुचञ्चन्त्यश्च ताः सटाश्च क्षणरुचिरुचिरोरुचश्चत्सटाः, क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटः, उत्कृष्टश्चासौ कण्ठश्च उत्कृष्ट कण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटश्चासौ उत्कृष्टकण्ठश्च क्षणरुचिरुचिरोरुचञ्चत्सटासटोत्कृष्टकण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृधकण्ठेन उद्भटः क्षणरुचिरुचिरोरुचञ्चत्सदासङ्कटोत्कृष्टकण्ठोद्भटः, तस्मिन् क्षणरुचिरुचिरोरुचञ्चत्सटासटोत्कृष्टकण्ठोगटे। सम्यक् स्थिता संस्थिता, तस्याः सं० हे संस्थिते!। भव्यश्चासौ लोकश भन्यलोकः, तं भव्यलोकम् । गजानां अरिःगजारिः, तस्मिन् गजारौ। न सना असन्ना, अक्षीणा इत्यर्थः। शितं च तत् आरं च शितारं, शितारवत् अतिशयेन भा-कान्तिः यस्याः सा शितारातिभा । भासते इति भासिनी । नीहाराश्च ताराश्च नीहारताराः, नीहारतारावत् वलक्षो नीहारतारावलक्षः, तस्मिन्नीहारतारावलक्षे। नास्ति मदो यस्याः सा अमदा । इति तुर्यवृत्तार्थः ॥४॥ श्रीमद्वीरजिनेन्द्रस्य, स्तुतेरो लिबीकृतः। सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना ॥१॥ ॥ इति श्रीचतुर्विंशतितमवीरजिनस्तुतिः समाप्ता । तत्समाप्तौ च समाता श्रीशोभनदेवाचार्यकृता शोभनस्तुतिः ॥ ४॥२४॥९६॥ १ तद्वद वलक्षो-धवलः' इति प्रतिभाति। २'परमं वसु यस्य स परमवसुः' इति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy