________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
१८५
1
केषाम् । ' नः ' षष्ठीबहुवचने अस्माकं इत्यस्य नसादेशः । पुनः कथंभूते निकाय्ये ! ' अहतिमति ' हतिः - हननं तद्रहिते, अविनाशिनीत्यर्थः । अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् । अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् । तयोश्चायमर्थः - अहति - हतिरहितं, अतिशयेन मते - अभिप्रेते । एतत्पक्षे मतेशासने इत्युक्तं तन्न व्याख्येयम् । हीति स्फुटार्थम् । पुनः कथम्भूतं ? । महति - अतिप्रमाणे, पञ्चचत्वारिंशलक्षयोजनत्वात् । तव (ते) कथंभूतस्य ! | शस्यमानस्य - स्तूयमानस्य । नरामराद्यैरिति गम्यम् । पुनः कथं भूतस्य ! । 'आनन्दधानस्य' आनन्दस्य धानं आनन्दधानं तस्य, प्रमोदस्थानस्येत्यर्थः । पुनः कथंभूतस्य ! | 'अमानिनः ' न विद्यते मान:- अभिमानो यस्य स तस्य । अथवा सामानिनः सह अमानिमि: - निरभिमानिभिरर्थात् साध्वादिमिर्यः स तथा तस्य । पुनः कथम्भूतस्य ? | ईशस्य – स्वामिनः । जगतामिति गम्यम् । पुनः किं कुर्वाणस्य ! | दधानस्य– पुष्णतः । कानि ! । सामानि - प्रियवचनानि । भारती कथंभूता । सा । अयं तच्छब्दो यच्छब्दं नापेक्षते, प्रशस्ता(सिद्धा ? ) र्थेऽभिहितत्वात् । पुनः कथंभूता ! | परमततिमिरोग्रमानुप्रमा' परेषां - बौद्धादीनां मतानि - शासनानि तान्येव तिमिराणि - तमांसि तत्र मानो:तो :- सूर्यस्य प्रभव प्रमा तन्मततिमिरोच्छेदकत्वात् । पुनः कथं० ! । गभीरा - अलब्धमध्या, गम्भीरेतियावत् । कैः कृत्वा । ' मूरिमयैः ' मूरयःप्रचुराः मङ्गाः–अर्थविकल्पाः तैः [ भूरिमङ्गैः ] । कथम् ? । भृशम् - अत्यर्थम् । पुनः कथंभूता ? । 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनो तारनौः' जननानि - जन्मग्रहणानि मृतयो - मरणानि तल्लक्षणास्तरङ्गाः-कल्लोला यत्र स तथा निष्णारः - पाररहितः एवंविधो यः संसार एव नीराकरः - समुद्रस्तस्यान्तर्मध्यं तत्र निमज्जन्तो–ब्रुडन्तो ये जनाः-लोकास्तेषां उत्तारः - उत्तरणं तटप्रापणं तत्र नौरिव नौः - तरिः । “पाशलिन्दी (१)स्तरङ्गो नौ: ” इति हारावली । पुनः कथंभूते ! | 'मानस्य वा संसत् ' वाशब्दोऽत्र इवार्थे भिन्नक्रम, तत एवं व्यज्यते - मानस्य - - पूजाया । संसदिव - सभेव । यदाह
" मन्येशङ्केधु प्रायो-नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दे - विशब्दोऽपि तादृशः ॥
39
1
इति । 64 वा प्रचेतसि जानीयादिवार्थे च तदव्ययम् " इति मेदिनी । मारती किं कुर्वती ! । आतन्वतीविस्तारयन्ती । किस् ! | 'तापदानं ' तापस्य सन्तापस्य दानं - खण्डनम् । अवशिष्टे च द्वे तीर्थकृत्संबोधने तयोश्चायमर्थः- हे ' अतन्वतीतापत् !' अतनवो - महत्यो अतीता - विनाशं प्राप्ता भापदो- दुर्दशा यस्मात् स तथा तस्य संबोधनं हे अतन्व० । कथम् ? | सदा - नित्यम् । हे हित ! - हितकारिन् । कस्मै ! । मतिमतेमनीषिणे, मतिः - सदसद्विवेकिताबुद्धिः सा विद्यते यस्य स मतिमान् तस्मै ॥ ३ ॥
सौ० वृ० - परमतेति । हे 'तीर्थकृत् !' तीर्थ चातुर्वर्ण्य सङ्घः प्रवचनं प्रथमगणधरो वा " तित्यं चावण्णे संघे पवयणे पढमगणहरे वा " इत्यागमपाठात् तीर्थ करोतीति तीर्थकुत् तस्य सं० हे तीर्थकृत् ! | हे ' अतन्वतीतापत् ! ' अतनुः- महती अतीता-गता आपत् - विपत् यस्मात् सः अतन्वतीतापद, तस्य सं० हे अतन्वतीतापत् ! | हे ' हित!' हे हितकारिन् । । [ हे 'ईश ! ' हे स्वामिन् ।। ] सा तब भारती निकाय्ये - आलये निवासं वासं वितीर्यात्तराम् इत्यन्वयः । ' वितीर्यात्तराम् ' इति क्रियापदम् । १ तीर्थ चातुर्वर्ण्यः सङ्घः प्रवचनं प्रथमगणधरो वा । २ भगवती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org