________________
૮૪
स्तुतिचतुर्विशतिका
[२४ मापीरच उग्र० 'कर्मधारयः' । (परमततिमिरेषु) उग्रभानुप्रभेव उग्रभानुमभा परमततिमिरोग्रभानुप्रभा 'तत्पुरुषः' । भूरयश्च ते भङ्गाश्च भूरिभङ्गाः ‘कर्मधारयः । तैः भूरि० । विश्वे विश्वस्मिन् वा वो विश्ववर्यः' तत्परुषः । तस्मिन् विश्व० । इतिरस्यास्तीति हतिमान् । न इतिमान् अहतिमान् ' तत्पुरुषः । तस्मिन्नह० । अथवा न विद्यते हतिर्यस्य सोऽहतिः ‘बहुव्रीहिः ।। तमहतिम् । अतिशयेन मतः अतिमतः 'तत्पुरुषः । तस्मिन्नतिमते । न तनवोऽसनवः । अतनवश्व ता अतीताश्च अतन्वतीताः 'कर्मधारयः । अतन्वतीता आपदो यस्मात् सोऽतन्व० 'बहुव्रीहिः। तत्सम्बो. हे अतन्व० । अथवा अतन्वतीता आपदो यस्याः साऽतन्व० 'बहुव्रीहिः आनन्दस्य धानमानन्दधानं 'तत्पुरुषः । तस्यानन्द मानोऽस्यास्तीति मानी । न मानी अमानी 'तत्पुरुषः । तस्यामानिनः । अथवा न मानिनोऽमानिनः 'तत्पुरुषः ।। सह अमानिभिर्वतते या स सामानी 'तत्पुरुषः । तस्याप्सामा० । जननानि च मृतयश्च जनन० ' इतरेतरद्वन्द्वः । तरङ्गा इव तरकाः । जननमृतयस्तरङ्गा यस्य स जनन० ' बहुव्रीहिः'। नीराणामाकरो नीराकरः ' तत्पुरुषः । नीराकर इव नीराकरः। संसारश्चासौ नीराकरश्च संसार० 'कर्मधारयः । निर्गतः पारो यस्मात स निष्पारः 'बहुव्रीहिः'निष्पारश्वासौ संसारनीराकरश्च निष्पार० 'कर्मधारयजननमृतितरङ्गश्चासौ निष्पारसंसारनीराकरश्च जनन० 'कर्मधारयः'। जननमृतितरङ्गनिष्पारसंसारनीराकरस्यान्तः जनन 'तत्पुरुषः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तो जनन० 'तत्पुरुषः' । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्नन्तश्च ते जनाश्च जनन० 'कर्मधारयः।। जननमृतितरकनिष्पारसंसारनीराकरान्तर्निमज्जज्जनानामुत्तारो० जनन० 'तत्पुरुषः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारे नौजनन ' तत्पुरुषः। । तीर्थ करोतीति तीर्थकृत् 'तत्पुरुषः । तत्सम्बो० हे तीर्थकृत् ! । तापस्य दानं तापदानं 'तत्पुरुषः । (तत्) । इति काव्यार्थः॥३॥
सि. वृ०-परमतेति । हे तीर्थकृत् !-तीर्थकर ! ते-तव मते-शासने सा-प्रसिद्धा मारती-वाणी न:-अस्माकं विश्ववर्ये -भुवनोत्तमे निकाय्ये-निवासे अर्थान्मोक्षे वासं-आश्रयम् वितीर्यात्तराम्-अतिशयेन ( दद्यात् ) इत्यर्थः । विपूर्वक ' तृप्लवनतरणयोः' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ऋत इर् ' ( सा० स० ८२०)। ' वोर्विहसे । ( सा० सू० ३१६ ) इति दीर्घः । तथाच ' विती. र्यात् । इति सिद्धम् । अत्र ‘वितीर्यात् (तगम्) इति क्रियापदम् । का की! । मारती । कं कर्मतापनम् ।। वासम् । कस्य । ते । कस्मिन् । निकाय्ये।" मन्दिरं सदनं सद्म, निकाय्यो भवनं कुटः" इति हैमः (अभि. का. ४, श्लो० ५१ )। कथंभूते निकायये ! । 'विश्ववर्ये । विश्वस्मिन् वय- प्रधानं विश्ववर्य तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org