________________
जिमात
स्तुतिचतुर्विशतिका विषयस्ताछन्दो यदुपादानं नापेक्षते " इति । भारती-वाणी न:-अस्माकं विश्ववर्ये-भुषनोचमे सर्वोत्तमे वा निकायये-निवासे मोक्ष इत्यर्थः, वासम्-आश्रयं वितीर्याचराम्-अतिशयेन वितरत्विति क्रियाकारकमयोगः । इयं कवुक्तिः। अत्र 'विवीर्यात्सराम् । इति क्रियापदम् । का की ? ' भारती ।। कस्य ? ' ते 'कं कर्मतापनम् ? ' वासम् ।। कस्मिन् ? 'निकाय्ये' निवासे । कथंभूते ? ' विश्ववर्ये' । केषाम् ? ' नः' । निकाय्ये पुनः कथंभूते ? ' अहतिमति' इति:-इननं तदहिते, अविनाशिनीत्यर्थः । अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् । अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् । तयोश्चायमर्थ:--अहति-इतिरहितं अतिशयेन मतेऽभिप्रेते एतत्पक्षे मते-शासने इत्युक्तं तन्न व्याख्येयम्। हीति स्फुटार्थे । पुनः कथंभूते निकाय्ये? 'महति' अतिप्रमाणे, पञ्चचत्वारिंशद्रलक्ष)योजनात्मकत्वात् । तव (ते) कथंभूतस्य ? 'शस्यमानस्य' स्तूयमानस्य । नरामराधैरित्यर्थः सामाद् गम्यते। पुनः कथं०१ 'आनन्दधानस्य' प्रमोदस्थानस्य। पुन: कयं०१ 'अमानिन' निरहङ्कारस्य । अथवा 'सामानिनः सह अमानिभि:-निरभिमानिभिः अर्थात् साध्वादिभिर्यः स तथा तस्य । अस्मिन् व्याख्यानपक्षे सा तव भारतीति तच्छन्दसापेतं न व्याख्येयम्। पुनः कथं०१ 'शिस्य' स्वामिनः। जगतामिति गम्यते । पुनः किं कुर्वाणस्य? 'दधानस्य' पुष्णतः । कानि कर्मवापन्नानि ? 'सामानि प्रियाणि । भारती कथंभूता ? 'परमततिमिरोजभानुप्रभा' परेषा-शाक्यादीनां मतानि तद्रूपाणि यानि तिमिराणि-तमांसि तत्र भानुभभा-पर. णिकिरणकल्पा, तदुच्छेदकत्वात् । पुनः कथं ? ' गभीरा । अलब्धमध्या । कैः कृत्वा ? 'भूरिभङ्गः । भूरिभिः-प्रचुरैः भङ्गः-अर्थविकल्पैः । कथम् ? ' भृशम् । अत्यर्थम् । पुनः कथं ? 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननानि-जन्मानि मृतयः-मरणानि सदूपा ये तरङ्गाः-वीचयः यत्र स तथा निष्पार:-पाररहितः, एवंविषो या संसारनीराकर:-भषपायोधिः तस्यान्त:-मध्यं तत्र निमज्जन्त:-ब्रुडन्तः ये जना-लोका तेषामुचारणं-पारमापर्ण तत्र नौरिव-नाविके व नौः। पुनः कथंभूता? 'मानस्य वा संसत् । वाशब्द इवायें भिन्नक्रमश्च, तत एवं योज्यते-मानस्य-पूजायाः संसदिव-सभेव । भारती किं कुर्वती ! 'मातन्वती । विस्तारयन्ती । किं कर्मतापमम् ? ' तापदानं ' तापस्य-सन्तापस्य दानं-खण्डनम् । अवशिष्टे च द्वे तीर्थकृतः सम्बोधने, तयोश्चायमर्थः-हे. 'अतन्वतीतापत् 'अतनवः-महत्यः अतीता: नाशं गताः आपदः-विपदो यस्मात् स तथा तत्सम्बो० हे अतन्व० । कथम् ? ' सदा नित्यम् । हे 'हित !' हितकारिन् ! कस्मै ? ' मतिमते । मनीषिणे । एते द्वे भारत्या विशेषणे अपि घटते । तथाचैवं व्याख्या-अतनवोऽतीता आपदो यस्याः सा तथा। मतिमता--मनीषिणा इंहिता-समीहिता, उपादेयतयाऽभिप्रेतेत्यर्थः॥
अथ समास:-परेषां मतानि पर० 'तत्पुरुषः ।। तिमिराणीव तिमिराणि । परमतानि च तानि तिमिराणि (च) पर० 'कर्मधारयः। भानोः प्रभा भानुमभा 'तत्पुरुषः । उग्रा चासौ भानुपमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org