________________
स्तुतिचतुर्विंशतिका
[ २४ श्रीवीर
यशोमातानि च तानि पत्राणि च यशोभातपत्राणि, यशोभातपत्राणि प्रकर्षेण भजन्ते ते यशोभातपत्रप्रभाजः, उर्वराया राइ (जः) उर्वराराजः, यशोभातपत्रप्रभाजश्च ते उर्वराराजश्च यशोभातपत्रप्रभागुर्वराराजः, यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्रभा गुर्वर । राद परेताहिताराः, यशोभातपत्रप्रभागुर्वराराद परेता हितारै: (राणां) उचितं पूर्ण शोभायमानं यशोभातपत्रप्रभागुर्वराराट्रपरेताहितारोचितम् । इति द्वितीयवृत्तार्थः ॥
२८९
दे० व्या० - समवसरणमत्रेति । सा अर्हतां - तीर्थङ्कराणां संहतिः - श्रेणिः भक्तिभाजां समीहितं वाञ्छितं प्रवितरतु - ददातु इत्यन्वयः । 'तू प्लवनतरणयोः' इति धातुः । ' प्रवितरतु ' इति क्रियापदम् । का कर्त्री ? | संहतिः । केषाम् ? | अर्हताम् । किं कर्मतापन्नम् ? | समीहितम् । केषाम् ? | 'भक्तिभाजां' भक्तिं-सेवां भजन्तीति भक्तिभाजः तेषाम् । यत्तदोर्नित्याभिसम्बन्धाद् यस्याः अर्हत्संहतेः समवसरणं वप्रत्रयं अरारादअभ्यर्थे यथा स्वात् तथा अत्र-अस्मिन् लोके शुशुभे इत्यध्याहारः ( 2 ) । 'शुशुभे (अराराट्र )' इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । किंविशिष्टं समवसरणम् १ । 'स्फुरत्केतुचक्रानकाने कपद्मेन्दुरुक्चामरोसर्पिशालत्रयी सदनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' । केतुः - धर्मध्वजः चक्रं - धर्मचक्रं आनको -देवबुन्दुभिः, " मेरी दुन्दुभिरानकः " इत्यमरः ( ? ), पद्मानि - सुरकृतकमलानि शालत्रयी - प्राकारत्रयी अशोक:- (कवेल्लि) वृक्षः आतपत्राणि - छत्राणि एतेषां पूर्वं 'द्वन्द्वः, तथाच स्फुरन् - विराजमानः केतुश्व चक्रं च आनकश्च अनेकानि पद्मानि च इन्दुरुक्चामराणि च उत्सर्पिणी शालत्रयी च सन् - शोभनः अवनमन्पल्लवादिभारेण खर्वीभवन् अशोकश्व पृथ्व्याः क्षणप्रायशोभा - उत्सवसदृशशोभा च आतपत्राणां प्रभा च ताभिः गुरु-गरिष्ठमित्यर्थः । पुनः किविशिष्टम् ? । ' परेताहितारोचितं ' परेताः - दूरीभूताः अहिता - शत्रवो येषां तैः आ - समन्तात् रोचितं - शोभितम् । यद्वा परा -प्रधाना इताहिता - गतदुर्जना इत्यर्हत्संहतेर्विशेषणम् । रोचितंशोभितं इति समवसृतेर्विशेषणम् । पुनः किंविशिष्टम् ? । ' यशोभातपत्रप्रभागुर्व राराट्र परेता हितारोचितम् ' उर्वरा राजो - राजानः परेताः पिशाचाः अहयो - नागकुमाराः तारा - ज्योतिष्काः एतेषां पूर्व 'द्वन्द्वः, ततो यशोभातानि - यशसा शोभितानि पत्राणि - वाहनानि भजन्ते ये उर्वराराट् परेताहिताराः तेषां उचितं - योग्यम् ॥ इति द्वितीयवृत्तार्थः ॥ २॥
भारत्यै प्रार्थना
परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्वव निकाय्ये वितीर्यात्तरा
महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्त्रतीतापदानन्दधानस्य सोमानिनः । जननमृतितरङ्गनिष्पार संसारनीरा करान्तर्निमज्जज्जनो तारनौभरती तीर्थकृत !
महति मतिमते हितेशस्य मानस्य वा संसदातन्त्रती तापदानं दधानस्य सामानि नः ३ - अर्णव ०
ज० वि०- परमतेति । हे तीर्थकृत् । - तीर्थकर ! ते तव मते - शासने सा - प्रसिद्धा, अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात् । तदुक्तम् - " प्रक्रान्तमसिद्धानुभूतार्थ
१' •मति मते ' इत्यपि पदच्छेदः । २ ' साऽमानिनः ' इत्यपि पाठः समीचीनः । ३ ' मतिमतेहिते० ' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org