________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
२८१
पुनः किंविशिष्टं समवसरणम् । परेता-गता अहिताः शत्रवः येषां ते तादृशाः साधवः तैः आसमन्तात् रोचितं व्याप्तं (2) 'परेताहितारोचितम् ' । यद्वा किंविशिष्टा अर्हतां सहतिः । । परेता-गता अहिता:- सप्ततयो यस्यां सा ' परेताहिता' ।
" साग्रे च गव्यूतिशतद्वये रुजा १ वैरी ( रे ) १ तयो ३ मार्च ४ तिवृष्टय ५ वृष्टयः ६ । दुर्भिक्ष ७ मन्यस्वकचक्रतो ८ भयं स्यान्नेति ( नैत एकादश कर्मघातजाः ) ॥
""
इत्यभिधानचिन्तामणि ( का० १, श्लो० ६० ) वचनात् । पुनः किंविशिष्टं समवसरणम् । । आसमन्तात् रोचितं शोभितं भासितं वा आरोचितम् ' । तथा ऋषीणां समूहः आरं, यद्वा अरन्तिसंसारपारं गच्छन्तीति आरा-मुनयः तेषां उचितं - योग्यं 'आरोचितम्' । पुनः किंविशिष्टं समवसरणम् ? । यशसा की भातानि - शोभितानि यानि पत्राणि - वाहनानि हस्त्यश्वरथशिबिकादीनि तानि भजन्ते तादृशा: ये उर्वरा - पृथ्वी तस्या राजो - राजानः चक्रवर्त्यादयः परेता- भूतप्रेतपिशाचव्यन्तरादयः अहयः - नागाख्या भवनवासिदेवविशेषाः ताराः - ज्योतिष्कदेवविशेषाः तेषां उचितं - योग्यं ' यशोभातपत्रप्रभागुर्व रारादपरे - ताहितारोचितम् ' । इति पदार्थः ॥
अथ समासः - स्फुरन्तः केतवो यस्मिन् तत् स्फुरत्केतु, स्फुरत्केतु (च) चक्रं च आनकाश्च स्फुरत्केतुचक्रानकाः, अनेकानि च तानि पद्मानि च अनेकपद्मानि इन्दुवद् रुग् येषां तानि इन्दुरुचि, इन्दुरुचि च तानि चामराणि च इन्दुरुक्चामराणि, शालानां त्रयी शालत्रयी, उत्सर्पिणी चासौ शालत्रयी च उत्सर्पिशालत्रयी, स्फुरत्केतुचक्रानकाश्च अनेकपद्मानि च इन्दुरुकुचामराणि च उत्सर्पिशालत्रयी च स्फुरत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयी, अवनमन् चासौ अशोकश्च अवनमदशोकः, सन् चासौ अवनमदशोकञ्च सदवनमदशोकः, स्फुरत्केतुचक्रानका ने कप झेन्दुरुकुचामरोत्सर्पिशालत्रयी च सदवनमदशोकश्च स्फुरत्केतुचक्रानकानेकपझेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोकः, पृथ्व्याः क्षणप्राया-उत्सवतुल्या पृथ्वीक्षणप्राया, (पृथ्वीक्षणप्राया ) शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि, आतपात् त्रायन्ते इति आतपत्राणि, पृथ्वीक्षणप्रायशोभानि च तानि आतपत्राणि च पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसद व नमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुकूचामरोत्सर्पिशालत्रयी सदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुरत्केतु०प्रायशोभातपत्राणां प्रभा स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभा, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशो भातपत्रप्रभाभिर्गुरु [यत] स्फुरत्केतुचक्रान कानेकपद्मेन्दुरुक्चामरोत्सार्वशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशो भातपत्रप्रभागुरु परेता-गताः अहिताः शत्रवो येषां ते परेताहिताः - साधवः, परेताहितैः आरोचितं परेताहितारोचितम् यद्वा परेता-गता अहिता- ईतयो यस्यां सा परेताहिता, अर्हतां संहतिपक्षे|आ-समन्तात् रोचितं-भासितं आरोचितं, यद्वा अरन्ति गच्छन्ति भवस्य पारं आरा :- मुनयः, आराणां उचितं आरोचितम् । भक्ति भजन्तीति भक्तिभाजः तेषां भक्तिभाजाम् । अम्मांसि धीयन्ते इति अम्भोधिः, भव एव अम्भोधिः भवाम्भोधिः, भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ताः भवाम्भोधिसम्भ्रान्ताश्च ते भव्याश्च भवाम्भोधिसम्भ्रान्तभव्याः, भवाम्भोधिसम्भ्रान्तभव्यानां आवली भवाम्भोधिसम्भ्रान्तमव्यावली, भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भोधिसम्भ्रान्तभव्यावली सेविता । दवनं च मदश्च शोकश्च दवनमदशोकाः, दवनमदशोकैः सहिता सदवनमवशोका, न विद्यन्ते सदवनमदशोका येषां ते असवनमदशोकाः अर्थात् साधवः, असदवनमदशोकानां साधून पृथ्वीव पृथ्वी आयता - विशाला भूमिरिव असदवनमदशोकपृथ्वी । इक्षणानि ज्ञानादीनि नयनानि प्राति- बदातीति ईक्षणप्रा । 'प्रा दाने' धातोरित्यस्य प्रातीति प्रयोगः । यशसा भातानि यशोभातामि,
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org