________________
९८०
स्तुतिचतुर्विंशतिका
[ २४ श्रीवीर
तानि चन्द्रोज्ज्वलानि, एवंविधानि चामराणि - वालव्यजनानि उत्सर्पिसालत्रयी - उत्सर्पिणी साचासौ सालानां - वप्राणां त्रयी सारत्रयी, वनमंश्चासावशोकश्च अवनमदशोकः ( संश्चासौ अघ० सद० ) पृथ्व्याः क्षणप्राया शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि च तानि आतपात् त्रायन्त इत्यातपत्राणि - छत्राणि, तथा च स्फुरत्केतवश्च चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिसालत्रयी च सवनमदशोकश्च पृथ्वीक्षणप्रायशो मातपत्राणि च स्फुरत्के तुच कानकानेक पद्मेन्दुरुक्चामशेत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणि ' इतरेतरद्वन्द्वः ', एतेषां स्फुरत्केत्वादीनां याः प्रभाः - कान्तयस्ताभिः गुरु-गरिष्ठम् । “ साल : पादपमात्रे स्यात् प्राकार " इति विश्वः । पुनः कथम्भूतम् ? ।' परेताहितारोचितं ' परेताः - अपगताः अहिताः - शत्रवो येषां ते तथा गतवैरा अर्थान्मुनयस्तै: ( आ ) रोचितं - शोभितम् । पुनः कथंभूतम् ? । ' यशोमतपत्रप्रभा गुर्वराराट्परेला हितारोचितम् ' यशसा - कीर्त्या मातानि - शोभितानि पत्राणि - गजवाजिसुखासनप्रमुखाणि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, "पत्रं स्याद् वाहने पर्णे, पक्षे च शरपक्षिणोः ' इति विश्वः, एतादृशा ये उर्वराराजो - भूभुजः परेताः पिशाचाख्या व्यन्तरदेवविशेषाः अहयो - नागकुमाराः - मवनपतिदेवविशेषाः तारा : - ज्योतिषिकास्तेषामुचितं - योग्यं, यशोभातपत्रप्रभागुर्व राजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्र मागुर्वराराट्परेताहिताराः ' इतरेतरद्वन्द्वः ' ।
"यत्र द्वित्वं बहुत्वं च स द्वन्द्व इतरेतरः ।
समाहारो भवेदन्यो, यत्रैकत्वं नपुंसके ॥ १ ॥ "
इत्युमापतिधरमहोपाध्यायाः ॥ २ ॥
सौ० वृ० - समवसरणमत्रेति । सा अर्हतां तीर्थकृतां संहतिः समूहः भक्तिभाजां - भक्तिकराणां जनानां समीहितं वाञ्छितं प्रवितरतु इत्यन्वयः । 'प्रवितरतु' इति क्रियापदम् । का कर्त्री ? । 'संहतिः” । hषाम् ? | 'अर्हताम्' । किं कर्मतापन्नम् ? । 'समीहितम्' । केषाम् ? । 'भक्तिभाजाम्' । किंविशिष्टा अर्हतां संहतिः । भवाम्भोधी - संसारसमुद्रे सम्भ्रान्ताः - व्याकुलीभूता ये भव्या-मुक्तिगमनयोग्याः तेषां आवलीश्रेणिः तथा सेविता - आराधिता ' भवाम्भोधि सम्भ्रान्तभव्यावलीसेविता' । पुनः किंविशिष्टा अर्हतां संहतिः । दवनः - तापः मदो-जात्यादिः शोकः-शुक्- शोचनं तेन सहिताः सदवनमदशोकाः तेषां पृथ्वी (सद०, न सद०) 'असदवनमदशोक पृथ्वी। पुनः कथंभूता अर्हतां संहतिः ।। ईक्षणानि - नयनानि ज्ञानादीनि प्राति ददातीति 'ईक्षणप्रा' । पुनः किंविशिष्टा अर्हतां संहतिः ? । ' सा' सा - प्रसिद्धा । तच्छब्दो बच्छन्दमपेक्षते । सा का ? । यस्याः । अर्हतां संहत्याः समवसरणं -धर्मवेश(ना) स्थानकं चतुर्विधदेवनिकाय निर्मितं अत्र - जगति अराराट् इत्यन्वयः । 'अराराट्' इति क्रियापदम् । किं कर्तृ ? । 'समवसरणम्' । ' अराराट् ' अतिशयेन वि (ध्य ) राजत् । कस्याः ? । 'यस्याः' संहत्याः । कुत्र ? । 'अत्र ' संसारे । किंविशिष्टं समवसरणम् ? । स्फुरन्तो- दीप्यमानाः चलन्तो वा केतवो-ध्वजाः धर्मध्वजादयः चक्रं - धर्मच* आनका - ध्वनदुन्दुभयः पटहाः वा अनेकानि पद्मामि सुरमिर्मितानि इन्दुः- चन्द्रः तद्वद्र सक-कान्तिः येषां तानि ताशानि चामराणि - बालव्यजनानि तथा उत्सर्पिणी- प्रोचुन सालत्रयी तथा सन्-शोभनः अवनमन्- पुष्पफलदलप्राग्भारेण नमन् यः अशोकः कङ्केल्लितरुः तथा पृथिव्यां जगति क्षणप्राया- उत्सयोग्या शोभा - कान्तिः येषु तानि आतपत्राणि - छत्राणि तेषां प्रभा-कान्तिः तया गुरु- महत्-महयै 'स्फुरकेतुचक्रान कानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयी सदवनमदशोक पृथ्वी क्षणप्रायशो भातपत्रप्रभागुरु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org