________________
जिनस्तयः।
स्तुतिचतुर्विंशतिका 'तत्पुरुषः । तेषां भक्तिः । अम्भोधिरिवाम्भोधिः । भवश्वासावम्भोधिश्च भवाम्भोधिः 'कर्मधारयः' । भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ता 'तत्पुरुषः' । भव्यानामावली भव्यावली 'तत्पुरुषः । भवाम्भोधिसम्भ्रान्ता चासौ भव्यावली च भवाम्भो० फर्मधारयः।। भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भो० 'तत्पुरुषः । सह दवनेन वर्तत इति सदवना ' तत्पुरुषः ।। मदश्च शोकश्च मदशोको 'इतरेतरद्वन्द्वः । मदशोकाभ्यां पृथ्वी मदशोक० 'तत्पुरुषः । सदवना चासौ मदशोकपृथ्वी च सदवन० 'कर्मधारयः ।।न सदवनमदशोकपृथ्वी असदवन० 'तत्पुरुषः । ईक्षणानि मातीति ईक्षणमा 'तत्पुरुषः' । यशसा भातानि यशो. तत्पुरुषः । यशोभातानि च तानि पत्राणि च यशो० 'कर्मधारयः । यशोभातपत्राणि प्रभजन्त इति यशोभा० । उर्वराया राज उवेरा० ' तत्पुरुषः । यशोभातपत्रप्रभाजश्व ते उर्वराराजश्च यशोभा० कर्मधारयः' । यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभा० ' समाहार(इतरेतर?)द्वन्द्वः । यशोभातपत्रप्रभागुवराराट्परेताहिताराणामुचितं यशोभा० 'तत्पुरुषः । इति कान्यार्थः ॥२॥
सि. वृ०-समवसरणमत्रेति । सा अर्हता-परमेष्ठिनां संहतिः-समूहः मक्तिमानां-सेवाकारिणां श्रद्धावतां समीहितं-वाञ्छितं प्रवितरतु-प्रकर्षेण करोत्वित्यर्थः । प्रविपूर्वक ' तु प्लवनतरणयोः ' धातोः
आशी प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' अप्० ' (सा. सू० १९१) । ' गुणः ' (सा० सू० १९२) । 'स्वरहीनं०' ( सा० सू० ३१) । तथाच 'प्रवितरतु' इति सिद्धम् । अत्र 'प्रवितरतु' इति क्रियापदम् । का की ! । सन्ततिः । केषाम् ! । अर्हताम् । किं कर्मतापन्नम् ! । समाहितम् । केषाम् ! । ' मक्तिमानां' मक्ति-अनुरागं श्रद्धां वा मजन्ति ते भक्तिभानस्तेषाम् । अर्हतां सन्ततिः कथंभूता ! | 'मवाम्भोधिसम्भ्रान्तमन्यावलीसेविता' मव एव अम्मोधिः भवाम्भोधिः तस्मिन् भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता या मन्यानामावली-पतिस्तया सेविता-आराधिता । पुनः कथंभूता ! । ' असदवनमदशोकपृथ्वी ' सह दवनेन-उपतापेन वर्तत इति सदवना, मदो-जात्याद्यमिमानः शोकः-शोचनं ताम्या पृथ्वी-वितता सदवना मदशोकपृथ्वी च न भवति या सा तथा । पुनः कर्थभूता: । ईक्षणप्रा' ईक्षणानि-लोचनानि प्राति-प्रयति आप्याययतीति ईक्षणप्रा, अथवा ईक्षणानिज्ञानानि प्राति-ददातीति ईक्षणप्रा । सेति सा का ! । यस्याः अर्हतां संहतेः समवसरणं-देवविनिर्मितधर्मदेशनास्थानमत्र-अस्मिन् जगति अराराट-अत्यर्थ अराजत् ।' राज दीप्तौ ' अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिबादावट (सा० स० ७०७)। 'अप्०' (सा० सू० ६९१)। तथा च 'भराराट' इति सिद्धम् । अत्र ' अराराट् । इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । कुत्र ? । अत्र । कथंभूतं समवसरणम् ! । स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वक्षिणप्रायशोभातपत्रप्रभागुरु' । स्फुरन्तः-चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्र आनकाः-देवदुन्दुमयः, अनेकानि च तानि पद्मानि च अनेकपद्मानि-बहनि सुरनिर्मितकमलानि इन्दोरिव रुक-रोचिर्येषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org