________________
२७८ स्तुतिचतुर्विशतिका
[ २४ श्रीवीरमदशोकपृथ्वी च न भवति या सा तथा । पुनः कथं० १ 'ईक्षणमा ईक्षणानि-लोचनानि पाति-पूरयति आप्याययतीति ईक्षणमा । अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणमा । सेति तच्छन्दसाहचर्याद् यच्छब्दयोजनामाह-यस्या अर्हता संहतेः समवसरणं-सुरकृतं धर्मदेशनास्थानं अत्र-अस्मिन् जगति अराराट-अत्यर्थमराजत् । अत्र ' अराराट्' इति क्रियापदम् । किं कर्तृ ? ' समवसरणम् ।। कस्याः ? ' यस्याः ।। कुत्र ? ' अत्र' । समवसरणं कयंभूतम् ? — स्फुरत्केतुचक्रानकानेकपोन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रभागुरु ' स्फुरन्तः--चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्रं आनकाः-देवदुन्दुभयः अनेकपद्मानिबहूनि सुरनिर्मितकमलानि इन्दुरुक्चामराणि-चन्द्रोज्ज्वलानि वालव्यजनानि उत्सर्पिसालत्रयीउत्तुङ्गमाकारत्रयं सदवनमदशोक:- सन्-प्रधानोऽवनमन्-नम्रीभवन् अशोकः-कडूल्लिपादपः पृथ्वीक्षणपोयाणि--भुव उत्सवावहानि आतपत्राणि-छत्राणि, एतेषां स्फुरत्केत्वादीनां याः प्रभा:कान्तयः ताभिर्गुरु-महाय॑म् । पुनः कथं०? 'परेताहितारोचितं' परेता:-अपगता अहिताः-शत्रवो येषां ते तथा, गतवैरा अर्थात् यत्यादयः, तैरारोचितं-उपशोभितम् । अथवा आरोचितमिति पृथगेव समवसरणविशेषणम् , परेता हिता इति च विशेषणद्वयमहतां संहतेः । तदर्थश्वायम्-परा-प्रधाना इताहिता-गतशत्रुरिति । समवसरणं पुनः कथं० ? ' यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ' यशसा-कीर्त्या भातानि-शोभीनि पत्राणि-गनवाजिसुखासनप्रमुखानि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, एतादृशाः उर्वराराजा-राजानो-भूभुजः परेता:-पिशाचा-व्यन्तरदेव विशेषाः अइयो-नागाख्या--भवनवासिदेवविशेषाः तारा-ज्योतिष्कदेवविशेषाः तेषामुचितं-योग्यम् ॥
अथ समासः- स्फुरन्तश्च ते केतवश्च स्फुर० 'कर्मधारयः। न एकान्यनेकानि तत्पुरुषः'। अनेकानि च तानि पदानि च अनेक० 'कर्मधारयः । इन्दोरिव रुचिर्येषां तानि इन्दुरुचीनि 'बहुव्रीहिः । इन्दुरुचीनि च तानि चामराणि च इन्दु० 'कर्मधारयः । सालानां त्रयी सालत्रयी तत्पुरुषः । उत्सर्पिणी चासौ सालत्रयी च उत्सर्पि० 'कर्मधारयः।। अवनमंश्चासावशोकश्च अवन० 'कर्मधारयः। संश्वासाववनमदशोकश्च सदव० 'कर्मधारयः' । पृथ्टयाः क्षणप्राया पृथ्वी० ' तत्पुरुषः' । पृथ्वीक्षणप्राया शोभा येषां तानि पृथ्वी० 'बहुव्रीहिः । आतपात् त्रायन्त इत्यातपत्राणि 'तत्पुरुषः' । पृथ्वीक्षणप्रायशोभानि च तान्यातपत्राणि (च) पृथ्वी० 'कर्मधारयः । स्फुरत्केतवश्व चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सपिसाळत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतु० 'इतरेतरद्वन्द्वः'। स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणां प्रभा स्फुरत्केतु० 'तत्पुरुषः । स्फुरत्केतुचक्रानकानेकपभेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशीभातपत्रप्रभाभिर्गुरु स्फुरत्केतु० 'तत्पुरुषः । परेताः अहिता येषां ते परे० 'बहुव्रीहिः । परेताहितरारोचितं परेता० 'तत्पुरुषः । भक्तिं भजन्त इति भक्तिभाजः
'प्रायशोभानि-भुव उत्सवावहा शोमा-कान्तिर्येषु तानि ' इति प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org