Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 485
________________ स्तुतिचतुर्विशतिका [ २४ श्रीवीर. समधीत्य वाचकेन्द्र-श्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किश्चित् ॥ २॥-आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत शोभनस्तुते।तिम् । जयविजय सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् ॥३॥-आर्या श्रीशोभनस्तुतेत्तेफेन्याग्रं प्रतिपाद्यते । पश्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया ॥४॥-अनुष्टुप् ग्रन्या २३५०। सि. ४०–सरमसनतेति । हे अम्बिके !-अम्बिकानाम्नि देवि ! त्वं-मवती मन्यलोक-मक्किननं परम्-उत्कृष्टं यथा स्यात् तथा सुतरा अव-रक्षेत्यर्थः । 'अव रक्षणे' धातोः 'आशी:प्रेरणयोः (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । अत्र ' अव' इति क्रियापदम् । का की ? । त्वम् । के कर्मतापन्नम् १ । भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ?। परम् । कथम् ।। सुतराम् । त्वं कथंभूता। 'परमवसुतराङ्गना अतिशयेन परमवस-उत्कृष्टतेजसौ अङ्गजौ-पुत्रौ यस्याः सा तथा । पूर्वभवापेक्षया एतद् विशेषणम् । पुनः कथंमता ? । 'आरावसन्नाशितारातिमारा' आरावो-ध्वनिविशेषः तेन सन्नाशितः-सम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा । पुनः कथंभता है। ' मासिनी-मासनशीला । पुनः कथंभूता ।।' हारतारा' हारेण-मौक्तिकस्रना तारा-उज्ज्वला । पुनः कथंभता ।' बलक्षेमदा' बलं-सामथ्र्य क्षेम-कल्याणं अनयोः ' इतरेतरद्वन्द्वः', ते ददातीति तथा । पनः कथंभूता! | 'भसन्ना' न सन्ना असन्ना, अखिन्नेत्यर्थः । पुनः कथंभूता ? । 'शितारातिमा' शितं-तनकृतं यदारं-पित्तलं तस्येव अतिमा-अतिशयेन प्रमा यस्याः सा तथा । " रीरिः (तिः ) स्त्रियामारकूटो न स्त्रियामथ ताम्रकं" इत्यमरः (श्लो० १९००)। पुनः कथंभूता ? । ' अमदा' न विद्यते मदो-दो यस्याः सा, मदरहितेत्यर्थः । कस्याम् ! । मासि-दीप्तिविषये। अवशिष्टानि सर्वाणि अम्बिकायाः सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे ' सरमसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरमसंसवेगं नतः-प्रणतो यो नाकिनारीजनः-देवाङ्गनालोकः तस्य उरोजपीठीषु-स्तनपीठिकासु लुठन्तः-इतस्ततः परिस्खलन्तस्ताराः-उज्ज्वला ये हारा:-कण्ठाभरणानि तेषां स्फुरन्तः-प्रसरन्तो ये रश्मयः-मयूषास्तैः सारेकर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तस्याः सम्बोधनं हे सरमस० । "सारः शबलवातयोः" इति विश्वः । हे संस्थिते !-अधिरूढे ! । कस्मिन् ? । ' गजारौ' गजानामरिः गजारिः तस्मिन्, केसरिणीत्यर्थः । कथंभूते गजारौ । अनिते-केनाऽप्यनभिभूते । पुनः कथंभूते ! । 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिः-तडित् तद्वत् रुचिरा-मनोज्ञा उरवो-विशालास्ताश्च ताश्चञ्चन्त्यः-दीप्यमाना याः सटाः-केसरास्ताभिः सङ्कटो-व्याप्तः स चासावुत्कृष्टः-अतिशायी यः कण्ठो-निगरणं तेनोद्भटः-कराल. स्तस्मिन् । पुनः कथंभूते ? । रानिते-शोभिते । पुनः कथंभूते ! । ' नीहारतारावलक्षे' नीहारो-हिम तारा-नक्षत्राणि अनयोः । द्वन्द्वः', तद्वद् वलक्षः-धवलस्तस्मिन् । " अवदातगौरशुभ्रवलक्षधवलार्जुनाः" इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562