Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 477
________________ स्तुतिचतुर्विंशतिका [ २४ श्रीवीर यशोमातानि च तानि पत्राणि च यशोभातपत्राणि, यशोभातपत्राणि प्रकर्षेण भजन्ते ते यशोभातपत्रप्रभाजः, उर्वराया राइ (जः) उर्वराराजः, यशोभातपत्रप्रभाजश्च ते उर्वराराजश्च यशोभातपत्रप्रभागुर्वराराजः, यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्रभा गुर्वर । राद परेताहिताराः, यशोभातपत्रप्रभागुर्वराराद परेता हितारै: (राणां) उचितं पूर्ण शोभायमानं यशोभातपत्रप्रभागुर्वराराट्रपरेताहितारोचितम् । इति द्वितीयवृत्तार्थः ॥ २८९ दे० व्या० - समवसरणमत्रेति । सा अर्हतां - तीर्थङ्कराणां संहतिः - श्रेणिः भक्तिभाजां समीहितं वाञ्छितं प्रवितरतु - ददातु इत्यन्वयः । 'तू प्लवनतरणयोः' इति धातुः । ' प्रवितरतु ' इति क्रियापदम् । का कर्त्री ? | संहतिः । केषाम् ? | अर्हताम् । किं कर्मतापन्नम् ? | समीहितम् । केषाम् ? | 'भक्तिभाजां' भक्तिं-सेवां भजन्तीति भक्तिभाजः तेषाम् । यत्तदोर्नित्याभिसम्बन्धाद् यस्याः अर्हत्संहतेः समवसरणं वप्रत्रयं अरारादअभ्यर्थे यथा स्वात् तथा अत्र-अस्मिन् लोके शुशुभे इत्यध्याहारः ( 2 ) । 'शुशुभे (अराराट्र )' इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । किंविशिष्टं समवसरणम् १ । 'स्फुरत्केतुचक्रानकाने कपद्मेन्दुरुक्चामरोसर्पिशालत्रयी सदनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' । केतुः - धर्मध्वजः चक्रं - धर्मचक्रं आनको -देवबुन्दुभिः, " मेरी दुन्दुभिरानकः " इत्यमरः ( ? ), पद्मानि - सुरकृतकमलानि शालत्रयी - प्राकारत्रयी अशोक:- (कवेल्लि) वृक्षः आतपत्राणि - छत्राणि एतेषां पूर्वं 'द्वन्द्वः, तथाच स्फुरन् - विराजमानः केतुश्व चक्रं च आनकश्च अनेकानि पद्मानि च इन्दुरुक्चामराणि च उत्सर्पिणी शालत्रयी च सन् - शोभनः अवनमन्पल्लवादिभारेण खर्वीभवन् अशोकश्व पृथ्व्याः क्षणप्रायशोभा - उत्सवसदृशशोभा च आतपत्राणां प्रभा च ताभिः गुरु-गरिष्ठमित्यर्थः । पुनः किविशिष्टम् ? । ' परेताहितारोचितं ' परेताः - दूरीभूताः अहिता - शत्रवो येषां तैः आ - समन्तात् रोचितं - शोभितम् । यद्वा परा -प्रधाना इताहिता - गतदुर्जना इत्यर्हत्संहतेर्विशेषणम् । रोचितंशोभितं इति समवसृतेर्विशेषणम् । पुनः किंविशिष्टम् ? । ' यशोभातपत्रप्रभागुर्व राराट्र परेता हितारोचितम् ' उर्वरा राजो - राजानः परेताः पिशाचाः अहयो - नागकुमाराः तारा - ज्योतिष्काः एतेषां पूर्व 'द्वन्द्वः, ततो यशोभातानि - यशसा शोभितानि पत्राणि - वाहनानि भजन्ते ये उर्वराराट् परेताहिताराः तेषां उचितं - योग्यम् ॥ इति द्वितीयवृत्तार्थः ॥ २॥ भारत्यै प्रार्थना परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्वव निकाय्ये वितीर्यात्तरा महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्त्रतीतापदानन्दधानस्य सोमानिनः । जननमृतितरङ्गनिष्पार संसारनीरा करान्तर्निमज्जज्जनो तारनौभरती तीर्थकृत ! महति मतिमते हितेशस्य मानस्य वा संसदातन्त्रती तापदानं दधानस्य सामानि नः ३ - अर्णव ० ज० वि०- परमतेति । हे तीर्थकृत् । - तीर्थकर ! ते तव मते - शासने सा - प्रसिद्धा, अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात् । तदुक्तम् - " प्रक्रान्तमसिद्धानुभूतार्थ १' •मति मते ' इत्यपि पदच्छेदः । २ ' साऽमानिनः ' इत्यपि पाठः समीचीनः । ३ ' मतिमतेहिते० ' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562