Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 476
________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका २८१ पुनः किंविशिष्टं समवसरणम् । परेता-गता अहिताः शत्रवः येषां ते तादृशाः साधवः तैः आसमन्तात् रोचितं व्याप्तं (2) 'परेताहितारोचितम् ' । यद्वा किंविशिष्टा अर्हतां सहतिः । । परेता-गता अहिता:- सप्ततयो यस्यां सा ' परेताहिता' । " साग्रे च गव्यूतिशतद्वये रुजा १ वैरी ( रे ) १ तयो ३ मार्च ४ तिवृष्टय ५ वृष्टयः ६ । दुर्भिक्ष ७ मन्यस्वकचक्रतो ८ भयं स्यान्नेति ( नैत एकादश कर्मघातजाः ) ॥ "" इत्यभिधानचिन्तामणि ( का० १, श्लो० ६० ) वचनात् । पुनः किंविशिष्टं समवसरणम् । । आसमन्तात् रोचितं शोभितं भासितं वा आरोचितम् ' । तथा ऋषीणां समूहः आरं, यद्वा अरन्तिसंसारपारं गच्छन्तीति आरा-मुनयः तेषां उचितं - योग्यं 'आरोचितम्' । पुनः किंविशिष्टं समवसरणम् ? । यशसा की भातानि - शोभितानि यानि पत्राणि - वाहनानि हस्त्यश्वरथशिबिकादीनि तानि भजन्ते तादृशा: ये उर्वरा - पृथ्वी तस्या राजो - राजानः चक्रवर्त्यादयः परेता- भूतप्रेतपिशाचव्यन्तरादयः अहयः - नागाख्या भवनवासिदेवविशेषाः ताराः - ज्योतिष्कदेवविशेषाः तेषां उचितं - योग्यं ' यशोभातपत्रप्रभागुर्व रारादपरे - ताहितारोचितम् ' । इति पदार्थः ॥ अथ समासः - स्फुरन्तः केतवो यस्मिन् तत् स्फुरत्केतु, स्फुरत्केतु (च) चक्रं च आनकाश्च स्फुरत्केतुचक्रानकाः, अनेकानि च तानि पद्मानि च अनेकपद्मानि इन्दुवद् रुग् येषां तानि इन्दुरुचि, इन्दुरुचि च तानि चामराणि च इन्दुरुक्चामराणि, शालानां त्रयी शालत्रयी, उत्सर्पिणी चासौ शालत्रयी च उत्सर्पिशालत्रयी, स्फुरत्केतुचक्रानकाश्च अनेकपद्मानि च इन्दुरुकुचामराणि च उत्सर्पिशालत्रयी च स्फुरत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयी, अवनमन् चासौ अशोकश्च अवनमदशोकः, सन् चासौ अवनमदशोकञ्च सदवनमदशोकः, स्फुरत्केतुचक्रानका ने कप झेन्दुरुकुचामरोत्सर्पिशालत्रयी च सदवनमदशोकश्च स्फुरत्केतुचक्रानकानेकपझेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोकः, पृथ्व्याः क्षणप्राया-उत्सवतुल्या पृथ्वीक्षणप्राया, (पृथ्वीक्षणप्राया ) शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि, आतपात् त्रायन्ते इति आतपत्राणि, पृथ्वीक्षणप्रायशोभानि च तानि आतपत्राणि च पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसद व नमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुकूचामरोत्सर्पिशालत्रयी सदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुरत्केतु०प्रायशोभातपत्राणां प्रभा स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभा, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशो भातपत्रप्रभाभिर्गुरु [यत] स्फुरत्केतुचक्रान कानेकपद्मेन्दुरुक्चामरोत्सार्वशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशो भातपत्रप्रभागुरु परेता-गताः अहिताः शत्रवो येषां ते परेताहिताः - साधवः, परेताहितैः आरोचितं परेताहितारोचितम् यद्वा परेता-गता अहिता- ईतयो यस्यां सा परेताहिता, अर्हतां संहतिपक्षे|आ-समन्तात् रोचितं-भासितं आरोचितं, यद्वा अरन्ति गच्छन्ति भवस्य पारं आरा :- मुनयः, आराणां उचितं आरोचितम् । भक्ति भजन्तीति भक्तिभाजः तेषां भक्तिभाजाम् । अम्मांसि धीयन्ते इति अम्भोधिः, भव एव अम्भोधिः भवाम्भोधिः, भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ताः भवाम्भोधिसम्भ्रान्ताश्च ते भव्याश्च भवाम्भोधिसम्भ्रान्तभव्याः, भवाम्भोधिसम्भ्रान्तभव्यानां आवली भवाम्भोधिसम्भ्रान्तमव्यावली, भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भोधिसम्भ्रान्तभव्यावली सेविता । दवनं च मदश्च शोकश्च दवनमदशोकाः, दवनमदशोकैः सहिता सदवनमवशोका, न विद्यन्ते सदवनमदशोका येषां ते असवनमदशोकाः अर्थात् साधवः, असदवनमदशोकानां साधून पृथ्वीव पृथ्वी आयता - विशाला भूमिरिव असदवनमदशोकपृथ्वी । इक्षणानि ज्ञानादीनि नयनानि प्राति- बदातीति ईक्षणप्रा । 'प्रा दाने' धातोरित्यस्य प्रातीति प्रयोगः । यशसा भातानि यशोभातामि, ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562