________________
जिनस्तुनयः।]
स्तुतिचतुर्विशतिका
२७५
चरणौ यस्य स तथा तस्य संबोधनं हे नम०। हे ' धरित्रीकृतावन ।' परिम्या:-मुषः, कश्चिदमेदात् धरित्रीगतलोकस्येत्यर्थः, कृत-विहितं अवनं-रक्षणं येन स तथा तस्य संबोधन हे धरित्रीकृतापन !" " धात्री धरित्री धरणी " इति हैमः ( का० ४, श्लो०१)। है । असङ्गमोद !सङ्ग:-ज्यादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः, सङ्गश्च मोदश्व सामादौ । इतरेतरद्वन्द्वः', ताभ्यां रहितोवर्जितस्तत्संबोधनं हे असङ्गमोद ! । हे अनङ्गन !! अगनाः--नार्यस्तामिः रहितस्तस्य संबोधनं हे अनगन ।। कथम् ।। अनवरते-निरन्तरम् । हे अरत 1-असक्त ।। हे । अरोदित" न विद्यते रोदितं यस्य स तथा तस्य (सं० हे अरो०) । हे 'आर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति स तथा तस्य सं० हे आर्याव ! । हे हित !-हितकारिन् ! । ' दधातेहिः' ( सा० स० १३०१)॥१॥ ___ सौ० वृ०-श्रीवृषभाधाः पान्तिा जिना यथार्थनामानः स्तुताः । एते सर्वेऽपि वर्धमानज्ञानदर्शनादिचरित्राद्यनेकगुणा भवन्ति । अनेन सम्बन्धेनायातस्य चतुर्विशतितमश्रीवर्धमाननानः देवैः कृतापरनामश्रीमहावीरनामजिनस्य स्तुतेर्व्याख्यान विधीयते-नमदमरेति।
हे 'वीर' ! हे श्रीमहावीर ! विशेषेण स्ववीर्ये-स्वात्मस्वभावे(१) स्वभावे ईरयति-प्रेरयति इति वीरः तस्य सं० हे वीर ! । पुनः नमन्त:-प्रणमन्तः ये अमरा-देवाः तेषां शिरोरुहा:-केशा:-चिकुराः तेभ्यः सस्ता:पतिताः सामोदाः आमोदा-सुगन्धः-परिमलः तेन सहिताः सामोदाः निर्निद्रा-विकसिता-विकस्वरा मन्दाराणां-देवतरूणां-कल्पवृक्षाणां या माला:-स्रजः तासा रजार्सि-परागाः तैः रश्रितो-पाटलीकृती अंही-चरणौ यस्य स नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरधिताहिः, तस्य सं० हे नमः वमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरनिताहे! हे धरित्रीकृतावन !' आधाराधेयोपचाराद् धरित्री-पृथ्वी तस्यां स्थिता ये जन्तवः पदार्था वा तेषां कृतं-विहितं अवनं-रक्षणं येन स धरित्री. कृतावनः, तस्य सं० 'हे धरित्रीकतावन !' हे 'असङ्गमोद' ! नास्ति (न स्तः) सङ्गः-प्रसङ्गः पोदःइष्टप्राप्तिलक्षणो हर्षः तौ द्वौ यस्य सः असमोदः, तस्य सं० हे असङ्गमोद! । 'अरत !' न विद्यते रतं-सुरतं यस्य सः अरतः, तस्य सं० हे अरत ! । हे 'अरोदित'! हे अरोदन । [हे "अनङ्ग!' हे अदेह !] । भवान्-त्वं मे-मम निर्वाणशर्माणि-मोक्षसुखानि अनवरत-निरन्तरं वितरतु इत्यन्वयः। 'वितरतु' इति क्रियापदम् । कः कर्ता । 'भवान्' । 'वितरतु' ददातु । कानि कर्मतापनानि ? । 'निर्वाणशर्माणि' । कस्य ? । 'मम' । कथम् ! । 'अनवरतम्' । किंविशिष्टो भवान् । वरतमःप्रधानतरः सङ्गमाख्यो वैमानिको देवः तस्य उदारा-स्फारा तारा-कनीनिका उदितं-शब्दं अन:कामः यासां ताः तादृशा नार्यः-स्त्रियः तासां आवली-श्रेणिः तस्या लापः देहः-शरीरं ईक्षितंकटाक्षावलोकनं तैः कृत्वा अमोहितानि-न व्यामोहें प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स वरतमसगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः । पुनः किंविशिष्टो भवान् ? । 'जातावतारः' कृतावतारः, प्राप्तजन्मा । कस्मिन् ? । धरा-पृथ्वी तस्या अधीशः-स्वामी यः सिद्धार्थनामा तस्य धामगृहं तस्मिन् 'धराधीशसिद्धार्थधानि किविशिष्टे धराधीशसिद्धार्थधाम्निक्षमा-पृथ्वी तस्यां अलङ्कतीअलङ्कारभूते क्षमालङ्कतौ । पुनः किंविशिष्टे धराधीशसिद्धार्थधाम्नि? । लीला-विलासः तस्याः पदं-स्थानं लीलापदं तस्मिन् लीलापदे । पुनः किंविशिष्टो भवान् ? । 'क्षितामः' क्षिताः-गताःआमाः-रोगा यस्मात् स क्षितामः। हे 'अननगन !' अङ्गना-नायः ताभी रहितः (तस्य सं०) अन०। हे 'आयोव!' आयोन-आर्यलोकान् अवति-रक्षति यः स आर्यावः तस्य सं० हे आर्याव! । हे 'हित!' हितकारिन् !। पुनः किंविशिष्टो भवान् ? । न विद्यते क्षोमो यस्यासौ अक्षोभवान् । इति पदार्थः ।।
१ अयं पाठः प्रामादिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org