________________
२७४
स्तुतिचतुर्विशतिका
[२४ श्रीवीर
सोऽरोदित: 'बुव्रीहिः' । तत्सम्बो० हेऽरोदित! । न विद्यन्तेऽङ्गना यस्य सोऽनङ्गनः ‘बहुव्रीहिः' । तत्सम्बो० हेऽनङ्गन !। आर्यानवतीत्यायोवः 'तत्पुरुषः । तत्सम्बो० हे आर्याच !। लीलायाः पदं लीलापदं ' तत्पुरुषः । तस्मिन् लीलापदे । क्षित आमो येन स क्षितामः ‘बहुव्रीहिः ।। क्षोभोऽस्यास्तीति क्षोभवान् । न क्षोभवान् अक्षोभवान् ' तत्पुरुषः' । इति काव्यायः ॥१॥
सि० १०-नमदमरेति । हे वीर ! हे महावीर ! हे ज्ञातनन्दन ! भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वितरतु-प्रयच्छत्वित्यर्थः। विशेषेण ईरयति-कम्पयति-प्रेत्यति कर्मशत्रनिति वीरः। विपर्व 'ईर गतिकम्पनयोः' पचाद्यच् । विशिष्टा ई:-लक्ष्मीः तपोरूपा तीर्थकृन्नामकदियसमुद्भूता वा तया राजतेऽसौ वीरः । राजू दीप्तौ', 'अन्येभ्योऽपि- (पा० अ० ३, पा० २, स०७५) इती ङित्वाहिलोपः । यद्वा ईरणं ईरः ईर गतौ' मावे घञ् । ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्चेति वचनात् विशिष्ट ईरो-ज्ञानमस्य (स) वीरः । यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति वा। कर्मशत्रुसेनानेतृत्वाद् द्दर्शितपराक्रमो वा वीरः। यद्वा निरुतिवशात् कर्मततिविदारणाद् वा वीरस्तस्य सम्बोधनं क्रियते हे वीर! । 'तू प्लवनतरणयोः धातोः 'आशी: प्रेरणयोः' (सा०सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप् कर्तरि' (सा.सू.६९१) इत्यप् । 'गुणः' (सा.सू.६९२) । ‘स्वरहीनं०' (सा.सू.३६) । तथा 'वितरतु' इति सिद्धम् अत्र वितरतु' इति क्रियापदम् । कः कर्ता? भवान् -त्वम् । कानि कर्मतापन्नानि? । 'निर्वाणशर्माणि' निर्वाणस्य-मोक्षस्य शर्माणि-सुखानि तानि निर्वाणशर्माणि । कस्य ! । मम । कथंभूतो भवान् । 'वरतमसङ्गमोदारतारोदितानजनार्यावलीलापदेहेक्षितामोहिताक्षः' । वरतमा-प्रधानतमा सङ्गम[क] स्य-सङ्गमकनाम्नो वैमानिकस्य देवस्य अथवा वरतमः सङ्गमो यस्याः सा वरतमसङ्गमा सा चासौ ' उदारतारा' च उदारा-अदीना तारासोचनकनीनिका यस्याः सा वरतमसङ्गमोदारतारा, सा चासौ · उदितानङ्गा' उदित:-उदयं प्राप्तः अनङ्ग:-कामो यस्याः सा वरतमसङ्गमोदारतारोदितानडा, एवंविधा या नार्यावली-नारीणामावली-श्रेणीस्त्रीश्रेणी तस्याः [आ]लापो-जल्पनं देहः-शरीरं इक्षितं-विलोकितं, [आ]लापश्च देहश्च ईक्षितं च [आ]लापदेहेक्षितानि इतरेतरद्वन्द्वः ', तैः अमोहितानि-अनासक्तानि-न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा । पुनः कथम्भूतः? । 'जातावतार:' जातः अवतार:-अवतरणं यस्य स तथा । कस्मिन? । 'धराधीशसिद्धार्थधाम्नि' धराया:-पृथिव्याः अधीशः -स्वामी यः सिद्धार्थ:-सिद्धार्थनामा तस्य धाम्नि-गृहे । कथंभूते? । 'क्षमालङ्कृती' क्षमाया:-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते । 'क्षितिः क्षोणी क्षमाऽनन्ता'' इति हैम: (का०४,श्लो०२) । पुनः कथंभूते ?। 'लीलापदे' लीलाया-विलासस्य पदे -स्थाने | भवान् कथंभूतः ?। 'क्षितामः' क्षितः-क्षपितः आमः-रोगो यस्मात् सः । पुनः कथंभूतः? । 'अक्षोभवान्' न क्षोभो विद्यते यस्यासौ अक्षोमवान् । अवशिष्टानि सर्वाणि श्रीवीरस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे
नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरलितांडू !' नमन्तः-प्रणमन्तो ये अमरा:-देवाः तेषां ये शिरोरुहा:-केशाः तेभ्यः स्रस्ताः-पतिताः ताश्च ताः सामोदाः-सुरमयः एवंविधा या निर्निद्राणा-विकसितानां मन्दाराणां-देवद्रुमकुसमानां मालाः-सजस्तासां यद् रजः-पुष्परेणुस्तेन रञ्जितौ-श्वेतरक्कीकृतौ अंही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org