________________
जिनस्तुप्तयः।] स्तुतिचतुर्विंशतिका
२७३ असक्त ! । हे 'अरोदित ! । रोदमवर्जित । । हे 'अनगन !' अङ्गमाः-नार्यस्ताभी रहित ।। हे 'आर्याष !' आर्यान्-आर्यलोकान् अपति-रक्षति यः स तथा तत्सम्बो. हे आधि ।। हे 'हित!हितकारिन् ! ॥
अथ समास:-नमन्तश्च ते अमराश्च नमद० 'कर्मधारयः। शिरसि रोहन्तीति शिरोरुहाः 'तत्पुरुषः । नमदमराणां शिरोरुहाः नमद० 'तत्पुरुषः ।। नमदमरशिरोरुहेभ्यः सस्ता नमद० ' तत्पुरुषः' । सह आमोदेन वर्तन्त इति सामोदाः 'तत्पुरुषः । निर्गता निद्रा येभ्यस्ते निर्निद्राः 'बहुव्रीहिः । सामोदाश्च ते निनिंद्राश्च सामो० 'कर्मधारयः।। सामोदनिर्निद्राश्च ते मन्दाराश्च सामोद० 'कर्मधारयः' । सामोदनिर्निद्रमन्दाराणां माला सामोद० 'तत्पुरुषः' नमदमरशिरोहरुहस्तस्ताश्च ताः सामोद-निर्निद्रमन्दारमालाश्च नमद० 'कर्मधारयः' । नमदमरशिरोरुहसस्तसामोदनिर्निद्रमन्दारमालानां रजः नमद० 'तत्पुरुषः । नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजसा रञ्जितौ नमद• 'तत्पुरुषः'। नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारनोरञ्जितौ अंही यस्य स नमद० 'बहुव्रीहिः'। तत्सम्बोधनं हे नमद० । कृतमवनं येन स कृतावनः ' तत्पुरुषः । धरित्र्याः कृतावनो धरित्री० 'तत्पुरुषः । तत्सम्बो० हे धरि ० । अतिशयेन बरा वरतमा । नारीणामावली नार्यावली 'तत्पुरुषः'। उदारा तारा यस्याः सा उदार० 'बहुश्रीहिः'। उदितोऽनङ्गो या साउदिता० 'बहुव्रीहिः' उदितामझा चासौ नार्यापली च उदिता. 'कर्मधारयः' । उदार... चासावुदिखानानाबली च उदार० 'कर्मधारयः ।। सङ्गमस्योदारतारोदितानजनार्यावली सङ्गमो० 'तत्पुरुषः । घरतमा चासौ सामोदारतारोदितानानाविली च वरतम० 'कर्मधारयः । अथवा वरतमः सङ्गमो यस्याः सा वरतम० 'बहुव्रीहिः ।। घरतमसङ्गमा चासावुदारतारोदितानङ्गमाविकी च घरसम० कर्मधारयः।। लापश्च देहश्च इक्षितं च लापदेहे० ' इतरेतरद्वन्दः । वरतमसमोदारतारोदितानगनार्यावल्या लापदेहेक्षितानि वरतम० 'तत्पुरुषः । न मोहितानि अमोहितानि 'तत्पुरुषः । वरतमसङ्गमोदारतारोदितानगनार्यावलीलापदेहेक्षितैरमोहितानि वरतम० 'तत्पुरुषः । घरतमसजमोदारतारोदितानगनार्यावलीलापदेहेक्षितामोहितान्यक्षाणि यस्य स वरतम० 'बहुव्रीहिः'। निर्वाणस्य शर्माणि निर्वाण 'तत्पुरुषः । तानि निर्वाण । जातोऽवतारो यस्य स जातावतारः बहुव्रीहिः । धराया अधीशो धराधीशः तत्पुरुषः' । धराधीशचासो सिद्धार्थश्च धरा० कर्मधारयः । धराधीशसिद्धार्थस्य धाम धरा० 'तत्पुरुषः । तस्मिम् धरा० । अलङ्कृतिरिवालकृतिः । क्षमाया अलङ्कृतिः क्षमा० 'तत्पुरुषः । तस्यां क्षमा । सनच मोदश्च सङ्गमोदौ ' इतरेतरद्वन्द्वः' । म विद्यते सामोदौ यस्य सोऽसन. 'बहुव्रीहिः ।। अथवा सज्ञान्मोदः सङ्गमोदः । तत्पुरुषः । न विद्यते सङ्गमोदो यस्य सोऽसन बहुव्रीहिः । तत्सम्बो० हेऽसङ्गः । न रतोऽरतः ' तत्पुरुषः । तत्सम्बो. हेऽरत ! । न विद्यते रोदितं यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org