________________
२४ श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथाय विज्ञप्ति:--- नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताह ! धरित्रीकृता
वन ! वैरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु 'वीर!' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ'धाम्नि क्षमालङ्कता. वनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ॥१॥
--अर्णक्दण्डकः ज० वि०-नमदमरेति । हे वीर !-महावीर ! । हेशब्द आभिमुख्याभिव्यक्तये सम्बोधनानां प्राक् प्रयुज्यते । भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वितरतु-प्रयच्छतु इति क्रियाकारकसम्बन्धः । अत्र वितरतु' इति क्रियापदम् । कः कर्ता ? ' भवान् । । कानि कर्मतापनानि ? 'निर्वाणशर्माणि ' । कस्य ? ' मम । भवान् कथम्भूतः?' वरतमसङ्गन्मोदारतारोदितानगन्नार्यावलीलापदेहेक्षितामोहिताक्षः। वरतमा-प्रधानतरा सङ्गम[क]स्य-सङ्गमकनाम्नो वैमानिकदेवस्य अथवा वरतमः सङ्गमो यस्याः सा तथा उदारतारा-अदीनलोचनकनीनिका उदितानगा-उद्गतस्मरा एवंविधा या नार्यावली-स्त्रीश्रेणी तस्या लापो-जल्पनं देहः-शरीरं इक्षित-विलोकितं तैरयोहितानि-अनासक्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा। पुनः कथं०? ‘जातावतारः' अवतीर्णः, उत्पन्न इत्यर्थः। कस्मिन् ? 'धराधीशसिद्धार्थधान्नि' धराधीश:क्षितिपतिः सिद्धार्थाभिधस्तस्य धानि-गेहे । कथंभृते ? 'क्षमालकृतौ । क्षमाया:-भुवः अल.
कृतौ-अलङ्कारभूते । पुनः कथंभूते ? ' लीलापदे ' विलासस्थाने । भवान् पुनः कथंभूतः १ 'क्षितामः " क्षपितरोगः । पुनः कथंभूतः ? ' अक्षोभवान् ' क्षोभवर्जितः । शेषाणि सर्वाण्यपि श्रीवीरस्य सम्बोधनानि, तव्याख्या चैवम्-हे 'नमदमरशिगेरुहस्रस्तसामोदनिर्निद्रमन्दारमालारनोरञ्जिताह !' नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां ये शिरोरुहा:-केशास्तेभ्यः स्रस्ता:गडिताः सामोदा:-सुरभयः एवंविधा या निर्निद्राणां-विकसिताना मन्दाराणां-देवमविशेषाणां कुसुमानां माला:-जः तासां यद् रजः-परागः तेन रञ्जितौ-पाटलितो अंही-चरणौ यस्य स तथा, तत्सम्बो० हे नमद०। हे 'धरित्रीकृतावन!' धरिच्या:-भुवः कृतावन !-विहितत्राण। अधरित्रीशब्देन धरित्रीगतालोका ज्ञेयाः,आधाराधेययोः कथञ्चिदभेदोपचारात्। हे 'असहमोद!' सङ्गः-स्त्र्यादिसंसर्गः मोद-धनादिप्राप्त्या प्रीतिः ताभ्यां रहितः, अथवा सङ्गाद् यो मोदस्तेन रहितः, (तत्सं० हे अस०!) स्वतन्त्रसुखेत्यर्थः । कथम् ? ' अनवरतम् । निरन्तरम् । हे ' अरत!'
'बरतम ! सामो• ' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org