Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 407
________________ २१२ स्तुतिचतुर्विशतिका [ १९ श्रीमल्लिकदम्बकै : ' वपुषो - देहस्य व्यथा-यातना तस्याः कदम्बकै -समू है । नरकादिगतं जगदवन्तीति समदायार्थः । पुनः किं कुर्वतो निनोत्तमान् ? । दधतो-धारयतः । काम ! । स्रज-मालाम् । कथंभृतां सनम ?।' स्फुरत्कदम्बकैरवशतपत्रसम्पदं । स्फुरन्ती-दीप्यमाना कदम्बानां-वृक्षविशेषकुसुमानां कैरवाणां-कुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्याः सा ताम् । " सहस्रपत्रं कमलं शातपत्रं कुशेशयं " इत्यमरः ( श्लो० १४१) । कदम्बो-नीपः । " नीपः कदम्बः सालस्तु " इति हैमः (का०४, श्लो०२०४) । कैरवं - श्वेतकमलम् । श्वेते तु तत्र कुमुदं, के रवं गर्दभाह यम्' इति हैमः (का० ४, श्लो० २३०)। शतपत्रं-कमलम् । कदम्बश्च कैरवं च शतपत्रं च कदम्बकैरवशतपत्राणि ' इतरेतरद्वन्द्वः ॥२॥ __ सौ० वृ०-जवादिति । भो भव्याः। यूयं जिनोत्तमान-तीर्थकरप्रधानान स्तुत इत्यन्वया। 'स्तुत ' इति क्रियापदम् । के कर्तारः । । 'यूयम् ।। 'स्तुत' प्रणमत । कान् कर्मतापलान् ? । 'जिनोत्तमान '। किं कुर्वतो जिनोत्तमान् ? । 'अवतः' रक्षतः। किं कर्मतापन्नम् ? । 'जगत् ' विश्वम् । कथम् ? । 'जवात् 'वेगेन। किंविशिष्टं जगत् ? । 'गतं' प्राप्तम् । किं कर्मतापनम् ? । 'पर्व' स्थानम् । कैः कृत्वा । वपुः-शरीरं तस्य व्यथा:-चिन्तापीडादयः तासां कदम्बकानि-वृन्दानि तै: ‘वपुर्व्यथाकादम्बकैः' । पुनः किंविशिष्ट जगत् ( पदं ! ) ?। अवशाः-परवशाः तपन्तः-संसारसुखाभिलाषेण तापं प्राप्नुवन्तो ये असाः-सत्त्वा स्मिन् तत् 'अवशतपत्रसम'। जिनात्तमान् कि कुवेतः दधतः' धारयतः । कां कर्मतापताम् । 'स्रज' मालाम् । किंविशिष्टां स्रजम् । स्फुरन्तः-दीप्यन्तः कदम्बा-नीपवृक्षविशेषाः कैरवाःकुमुदादयः शतपत्राणि-कमलादीनि तेषां सम्पत्-ऋद्धिः यस्यां सा ताम् ‘स्फुरत्कदम्बकैरवशतपत्रसम्पदम्' । इति पदार्थः॥ अथ समासः-अवन्ति रक्षन्तीति अवन्तः, तान अवतः । वपुषां व्यथाः वपुर्व्यथाः, वपुर्व्यथानां कदम्बकानि वपुर्व्यथाकदम्बकानि, तैर्वपुर्व्यथाकदम्बकैः । न वशा अवशाः, तपन्ति ते तपन्तः, अवशाः तपन्तस्त्रसा यस्मिन तत् अवशतपत्रसं, तत् अवशतपत्रसम् । जिनेषु उत्तमा जिनोत्तमाः, तान जिनोत्तमान् । दधति ते दधन्तः, तान् दधतः । कदम्बाश्च कैरवाश्च शतपत्राणि च कदम्बकैरव श्च शतपत्राणि च कदम्बकैरवशतपत्राणि, स्फुरन्ति च तानि कदम्बकैरवशतपत्राणि च स्फुरत्कदम्बकैरवशतपत्राणि, स्फुरत्कदम्बकैरवशतपत्राणां सम्पद् यस्यां सा स्फुरत्कदम्बकैरवशतपत्रसम्पदम् । इति द्वितीयवृत्तार्थः ॥ २॥ दे० व्या०---जवादिति । हे भव्यलोकाः । यूयं जिनोत्तमान्-जिनेषु उत्तभान्-श्रेष्ठान तीर्थंकरानित्यर्थः स्तुत-स्तुतिविषयीकुरुत इत्यन्वयः। 'ट्र स्तुतौ' धातुः। 'स्तुत' इति क्रियापदम् । के कर्तारः। यूयम् । कान कर्मतापन्नान ? जिनोत्तमान । किं कुर्वतो जिनोत्तमान्? । दधतो-धारयतः | काम् । स्रज-मालाम् । किंविशिष्टां स्रजम् । 'स्फुरत्कदम्बकरवशतपत्रसम्पदं, कदम्बो-नीपः, "नीप: कदम्बः सालस्तु" इत्यभिधानचिन्तामणिः ( का०४, प्रलो २०४ ), केरवं-श्वेतकमलं, " श्वेते तु तत्र कुमुदं, कैरवं गर्दभाह्वयम्" इत्यभिधानचिन्तामणिः (का०४.श्लो०२३०), शतपत्रं-कमल सेवन्तीति लोकप्रसिद्धं पुष्पं वा, पतेषां पूर्व 'वन्द्र ततः स्फुरन्ती कदम्बकैरवशतपत्राणां सम्पद् यस्यामिति 'बहुव्रीहिः' । पुनः किं कुर्वतो जिनोत्तमान् ।। 'अवतः' रक्षतः । किम जगत्-विष्टपम् । कस्मात् ? । जवात् । किंविशिष्टं जगत् । । गतं-प्राप्तम् । किम् । पदं-नरकादिस्थानम् किंविशिष्टं पदम् । । अवशतपत्रसम्' अवशा:-परतन्त्राः परमाधार्मिकाधीनाति यावत् तपन्तः-तापमनुभवन्तः त्रसा:-प्राणिनो यत्र तत् । कैः । 'बपुर्व्यथाकदम्बकैः' वपुषः-शरीरस्य व्यथा-यातनाः तासां कदम्बका:-समूहाः तैः । “वृन्दं चक्रकदम्बके समुदयः पुजोरकरी संहतिः"। त्यभिधानचिन्तामणिः (का०६, श्लो०४७)। इति द्वितीयवृत्तार्थः ॥२॥ +Se+ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562