Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 433
________________ २१८ स्तुतिचतुर्विशतिका [२१ श्रीवान यानं, सु-शोभनो मतः सुमतः, अपातापदघनगरीयाने सुमतः अपातापदधनपरीवानसुमतः । हेतवच प्रमितयश्च हेतुप्रमितयः, विकटाश्च ताः हेतुप्रमितयश्च विकटहेतुप्रमितयः, स्फुटाश्च ता विकटहे तुप्रमितयश्च स्फुटविकटहेतुप्रमितयः, स्फुटविकटहेतुप्रमितीः भजतीति स्फुटविकटहेतुप्रमितिभाक् । पातिरक्षतीति पाता। पदानां पदैर्वा घनं पदधनं, अतिशयेन गुरुर्गरीयान, पदयनेन गरीयान् पदघनगरी. यान् । असकः-प्राणा विद्यन्ते येषां ते असुमन्तः, तान् असुमतः । इति तृतीयवृचार्थः ॥३॥ दे० व्या०-जलव्यालेति । कृतान्तः-सिद्धान्तः असुमतः-प्राणिनः त्रासीष्ट-रक्षतात् इत्यन्वयः। 'वासीष्ट' इति क्रियापदम् । कः कर्ता ? । कृतान्तः । कान् कर्मतापनान् । असुमतः । कस्मात् ।। 'जलव्यालव्याधज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादि व्याल:-सर्पः व्याघ्रः-सिंहः (?) ज्वलनो-वह्निः मजोमत्तमातङ्गः रुक-रोगः बन्धनं काराक्षेपः युत्-संग्रामः एतेषां 'द्वन्द्वः' तस्मात् । किंविशिष्टः कृतान्तः। वाहः-तुरङमः । अत्राभेदरूपकालङ्कारः। “वाहो वाजी हयो हरिः, इत्यभिधानचिन्तामणिः (का०४. श्लो०२९९)। पुनः किविशिष्टः। गुरुः-हिताहितप्राप्तिपरिहारोपदेष्टा । पुनः किंविशिष्टः।' अपातापदघनगरीयानसुमतः' न विद्यते पातश्च आपच्च अघं च यस्याः सा अपातापदघा, एवंविधा या नगरी अर्थान्मुक्तिः तस्यां याने-गमने सुमतः-सुतरामभिप्रेतः। वाहस्य विशेषणं वा । पुनः किंविशिष्टः? । 'स्फुटविकटहेतुप्रमितिभाक' स्फुटाः-स्पष्टाः शब्दतः विकटा-दुर्गमाः अर्थतः ते च ते हेतवः-साध्यगमकास्तेषां प्रमितिः-यथार्थज्ञानं (तां) भजतीति भाक्, विप्प्रत्ययान्तम् । पुनः किंविशिष्टः ? । उरुः-विशालः । वा वैकल्पिकः । पुनः किंविशिष्टः। 'पाता' पातीति पाता-रक्षकः, दुर्गतिपतत्प्राणिरक्षकत्वात् । पुनः किंविशिष्टः।। 'पदधनगरीयान् । पदानि-वर्णसमूहाः सुपतिङन्तानि वा तैर्धनो (-निबिडः) निवहः अत एव गरीयान-गरिष्ठः ॥ इति तृतीयवृत्तार्थः॥३॥ कालीदेव्याः स्तुति विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनयासमानाली काली विशदचलनानालिकबरम् ॥ ४ ॥२१॥ -शिख. ज०वि० - विपक्षेति ! काली-काल्याख्या देवी व:-युष्माकं विपक्षव्यूह-वैरिसमूहं दलयतुविनाशयतु इति क्रियाकारकप्रयोगः । अत्र 'दलयतु । इति क्रियापदम् । का की ? 'काली। कि कर्मतापनम् ? ' विपक्षव्यूहम् ।। केषाम् ? ' वः'। काली कथंभूता ? 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः- माला ते धारयतीति गदाक्षावलिधरा । पुनः कथं० १ 'असमा' असरची । पुनः कथं० १ 'नालीकालीविशदचलना ' नालीकाली-कमलावली तद्वद् विशदौ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562