________________
२१८
स्तुतिचतुर्विशतिका
[२१ श्रीवान
यानं, सु-शोभनो मतः सुमतः, अपातापदघनगरीयाने सुमतः अपातापदधनपरीवानसुमतः । हेतवच प्रमितयश्च हेतुप्रमितयः, विकटाश्च ताः हेतुप्रमितयश्च विकटहेतुप्रमितयः, स्फुटाश्च ता विकटहे तुप्रमितयश्च स्फुटविकटहेतुप्रमितयः, स्फुटविकटहेतुप्रमितीः भजतीति स्फुटविकटहेतुप्रमितिभाक् । पातिरक्षतीति पाता। पदानां पदैर्वा घनं पदधनं, अतिशयेन गुरुर्गरीयान, पदयनेन गरीयान् पदघनगरी. यान् । असकः-प्राणा विद्यन्ते येषां ते असुमन्तः, तान् असुमतः । इति तृतीयवृचार्थः ॥३॥
दे० व्या०-जलव्यालेति । कृतान्तः-सिद्धान्तः असुमतः-प्राणिनः त्रासीष्ट-रक्षतात् इत्यन्वयः। 'वासीष्ट' इति क्रियापदम् । कः कर्ता ? । कृतान्तः । कान् कर्मतापनान् । असुमतः । कस्मात् ।। 'जलव्यालव्याधज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादि व्याल:-सर्पः व्याघ्रः-सिंहः (?) ज्वलनो-वह्निः मजोमत्तमातङ्गः रुक-रोगः बन्धनं काराक्षेपः युत्-संग्रामः एतेषां 'द्वन्द्वः' तस्मात् । किंविशिष्टः कृतान्तः। वाहः-तुरङमः । अत्राभेदरूपकालङ्कारः। “वाहो वाजी हयो हरिः, इत्यभिधानचिन्तामणिः (का०४. श्लो०२९९)। पुनः किविशिष्टः। गुरुः-हिताहितप्राप्तिपरिहारोपदेष्टा । पुनः किंविशिष्टः।' अपातापदघनगरीयानसुमतः' न विद्यते पातश्च आपच्च अघं च यस्याः सा अपातापदघा, एवंविधा या नगरी अर्थान्मुक्तिः तस्यां याने-गमने सुमतः-सुतरामभिप्रेतः। वाहस्य विशेषणं वा । पुनः किंविशिष्टः? । 'स्फुटविकटहेतुप्रमितिभाक' स्फुटाः-स्पष्टाः शब्दतः विकटा-दुर्गमाः अर्थतः ते च ते हेतवः-साध्यगमकास्तेषां प्रमितिः-यथार्थज्ञानं (तां) भजतीति भाक्, विप्प्रत्ययान्तम् । पुनः किंविशिष्टः ? । उरुः-विशालः । वा वैकल्पिकः । पुनः किंविशिष्टः। 'पाता' पातीति पाता-रक्षकः, दुर्गतिपतत्प्राणिरक्षकत्वात् । पुनः किंविशिष्टः।। 'पदधनगरीयान् । पदानि-वर्णसमूहाः सुपतिङन्तानि वा तैर्धनो (-निबिडः) निवहः अत एव गरीयान-गरिष्ठः ॥ इति तृतीयवृत्तार्थः॥३॥
कालीदेव्याः स्तुति
विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा
ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनयासमानाली काली विशदचलनानालिकबरम् ॥ ४ ॥२१॥
-शिख. ज०वि० - विपक्षेति ! काली-काल्याख्या देवी व:-युष्माकं विपक्षव्यूह-वैरिसमूहं दलयतुविनाशयतु इति क्रियाकारकप्रयोगः । अत्र 'दलयतु । इति क्रियापदम् । का की ? 'काली। कि कर्मतापनम् ? ' विपक्षव्यूहम् ।। केषाम् ? ' वः'। काली कथंभूता ? 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः- माला ते धारयतीति गदाक्षावलिधरा । पुनः कथं० १ 'असमा' असरची । पुनः कथं० १ 'नालीकालीविशदचलना ' नालीकाली-कमलावली तद्वद् विशदौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org