________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
२३७
रुग्बन्धनयुधः । इतरेतरद्वन्द्वः । तस्मात् । पुनः कथंमतः । गुरुः-महान् । गृणाति हिताहितमितेि गुरुः । 'कृयोरुच्च' ( उणा० सू० २४ ) इति उः, उकारान्तादेशो रपरः । पुनः कथंभूतः ।। 'वाह' वाह्यते इति वाहः, वाह इव वाहः-तुरङ्गमः, वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः । कथंमतः ।। • अपातापदघनगरीयानसुमतः' पातः-च्यवनं आपद्-विपत् अघ-पापं, ततो न विद्यन्ते पापापदघानि यस्यां सा चासो नगरी अर्थान्मुक्तिरेव तस्यां यानं-गमनं तत्र सुमतः-सुष्ठु संमतः-सुतरामभिप्रेतः, एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः । कृतान्तस्येदं विशेषणमिति कश्चित् । पुनः कथंमतः कृतान्तः ? । स्फुटविकटहेतुप्रमितिमाक्' स्फुटा-अविसंवादिनीः विकटा-अश्लिष्टाः हेतुप्रमिती:-लिङ्गप्रमाणानि मजति यः स तथा । हेतवश्च प्रमितयश्च हेतुप्रमितयः । इतरेतरद्वन्द्वः, ' विकटाश्च ता हेतुप्रमितयश्च विकटहेतुप्रमितयः " कर्मधारयः', स्फुटाश्च ता विकटहेतुप्रमितीमजतीति स्फुटविकटहेतुप्रमितिमाक् । पुनः कथंभूतः । उरु:विशालः । अत्र वाशब्दश्चकारार्थः । तेन उरुश्च-विशालश्च । पुनः कथंभूतः ? । 'पाता' पातीति पाता-त्राता दुर्गतिनिपतत्प्राणिनां रक्षकत्वात् इति भावः । पुनः कथंभूतः ? । 'पदघनगरीयान् । पदेषु-वाक्यावयवेषु घन:-अर्थनिबिडः गरीयान्-महत्त्वातिरेकयुक्तः, घनश्चासौ गरीयांश्च धनगरीयान् , पदेषु धनगरीयान् पदधन. गरीयान् इति तत्पुरुषः ॥
सौ० वृ०-जलव्यालेति । अहो इत्यामन्त्रणे। भो भव्याः ! कृतान्त:-सिद्धान्तः असमतःप्राणिनः त्रासीष्ट इत्यन्वयः। 'त्रासीष्ट' इति क्रियापदम् । कः कर्ता ? ।' कृतान्तः' । त्रासीष्ट' रक्षतात् । कान् कर्मतापन्नान् ? । 'असुमतः'प्राणिनः। कस्मात् सकाशात् । जलं-सरःसरित्समदान्धुसम्बन्धि व्याला:-सर्पाः व्याघ्राः-द्वीपिशार्दूलादयः ज्वलनः वह्निः गजाः-करिणः रुजः-जलोदरादयः बन्धनंकरपादादिनिगडं युत-सङ्ग्रामः इत्याद्यष्टभयेभ्यः जलव्यालव्याघ्रज्वलनगजरुक्बन्धनयुधः तस्मात् 'जलव्यालव्याघ्रज्वलनगजरुग्रबन्धनयुधः' । पुनः किंविशिष्टः कृतान्तः ? । 'गुरुः' महान् । पुनः किंविशिष्टः कृतान्तः ? । 'वाहः' अश्व इव अश्वः । पुनः किं विशिष्टः कृतान्तः । न विद्यते पात:च्यवनं आपद्-विपत् अघं-पापं यस्यां सा अपातापदघा तादृशी या नगरी अर्थान्मुक्तिः तस्यां यानंगमनं मागोवा तस्मिन् सु-शोभनो मतः-अभिमत:-अभिलषितः 'अपातापदघनगरीयानसमतः । तादृशः कृतान्तः-सिद्धान्तः मुक्तिगमनयोग्यः वाह इव मतः। अन्योऽपि यो घाहा भवति स परप्रापणे अभिमतो भवति । पुनः किंविशिष्ठः कृतान्ता है। स्फुटा:-प्रकट बिकता-अतिरम्भीरा अर्थगहनत्वात् तादृशा य हेतवः-कारणानि दृष्टान्ता वा प्रमितय.-प्रमाणानि प्रत्यक्षपक्षादानि अनुमानोपमानप्रमुखाणि (ताः) भजति स 'स्फुटविकटहेतुप्रमितिभाक् । पुनः कांवशिष्टः कृतान्तः? ! उरुः' विशाल वाशब्दः समुच्चयार्थे चकारार्थ वा । पुनः किंविशिष्टः कृतान्तःपाता रक्षकः अर्थात जगतः। पुनः किंवि. शिष्टः कृतान्तः । पदानि स्यादित्यादीनि सुश्लिष्टसुमधुरादीनि वा तैः कृत्वा घनो-निविड़ः [ते ] गरीयान्-अतिशयेन गुरुः 'पदघनगरीयान् ' । एतादृशः कृतान्तः प्राणिनो रक्षतात् । इति पदार्थः॥
अथ समासः-जलानि च व्यालाश्च व्याघ्राश्च ज्वलनश्च गजाश्च रुजश्च बन्धनानि च युधश्च जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । गृणाति-वदति तत्त्वं हिताहितं इति गुरुरावाह्यते-आरुह्यते इति वाहःपतनं-च्यवनं-पातः, पातश्च आपच्च अघच पातापदधानि,न विद्यन्ते पातापदघानि यस्यां सा अपातापदघा,अपातापरा चासौ नगरी च अपातापदघनगरी, अपातापदघनगी यानं अपातापदषनगरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org