________________
स्तुतिचतुर्विंशतिका
[ ११ श्रीनाम
"
ज० वि० -- जलव्यालेति । अहो इत्यामन्त्रणे तच्चैवं योज्यते - अहो भव्याः ! | कृतान्तः- सिद्धान्तः त्रासीष्ट - रक्ष्यात् इति क्रियाकारकयोजना | अत्र त्रासीष्ट ' इति क्रियापदम् । कः कर्ता १ कृतान्त: ' | कान् कर्मतापन्नान् ? , असुमतः ' प्राणिनः । कस्मात् सकाशात् त्रासीष्ट ? जळव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः ' जलं - समुद्रादिसम्बन्धि वारि व्यालः- पन्नगः व्याघ्रो -द्वीपी ज्वलनो - वह्निः गजः - करी रुग् - जलोदरादिरोगः बन्धनं-करच - रणादिनियत्रणं युत्-सङ्ग्रामः तस्मात् । कृतान्तः कथंभूतः ? ' गुरुः " महान् । पुनः कथं० ।
6
6
वाहः ' वाहः–अश्वः स इव वाहः । वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः । कथंभूतः ? ' अपातापदघनगरीयानसुमतः ' पातः- च्यवनं आपद् - विपत् अघं-पापं, ततो न विद्यन्ते पातापदधानि यस्याः सा चासौ नगरी युक्तया मुक्तिरेव तस्यां यानं - गमनं तत्र सुमतः - सुष्ठु सम्मतः । एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः । कृतान्तः पुनः कथं १' स्फुटविक टहेतु प्रमितिभाक् ' स्फुटाः- अविसंवादिनी: विकटा:- अश्लिष्टाः हेतुप्रमिती :- लिङ्गप्रमाणानि भजतीति यः स तथा । पुनः कथं० ? ' उरुर्वा ' अत्र वाशब्दचकारार्थः तेन उरुश्च - विशालश्च । पुनः कथं ० १ पाता ' त्राता । पुनः कथंभूतः १ ' पदघनगरीयान् ' पदेषु - वाक्यावयवेषु घनः - अर्थनिविडः गरीयान् - महत्त्वातिरेकयुक्तः ॥
"
२३६
"
अथ समासः - जलं च व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युत् च जलव्याल०- समाहारद्वन्दः ' । तस्मात् जलव्यालव्याघ्रज्वलन गजरुग्बन्धनयुधः । पातश्च आपच अघं च पातापघानि ' इतरेतरद्वन्द्वः । न विद्यन्ते पातापदघानि यस्याः सा अपाता० 6 बहुव्रीहिः ' | अपातापदघा चासौ नगरी च अपाता० ' कर्मधारयः । अपातापदघनगर्यां यानं अपाता० तत्पुरुषः ' । सुष्ठु मतः सुमतः ' तत्पुरुषः ' । अपातापदघनगरीयाने सुमतः अपाता●
"
"
तत्पुरुषः ' । हेतवश्च प्रमितयश्च हेतु ० ' इतरेतरद्वन्द्वः' । विकटाव ता हेतुप्रमितयश्च विकट० ' कर्मधारयः ' । स्फुटाश्च ता विकटहेतुप्रमितयश्च स्फुटवि० ' कर्मधारयः ' । स्फुटविकटहेतुप्रमितीर्भजतीति स्फुटवि० ' तत्पुरुषः ' । घनश्वासौ गरीयांश्च घनगरीयान् 'कर्मधारयः ' । पदेषु घनगरीयान् पद ० ' तत्पुरुषः ' । इति काव्यार्थः ॥ ३ ॥
सि० वृ० – जलव्यालेति । अहो इत्यामन्त्रणे । तच्चैवं योज्यते - अहो भन्याः ! कृतान्तःसिद्धान्तः असुमतः त्रासीष्ट - रक्षतामित्यर्थः । ' त्रैङ् ङ् पालनयो:' इति धातोः आशिषि कर्तरि आत्मपदे प्रथमपुरुषैकवचनं सीष्ट । ' सन्ध्यक्षराणामा ' ( सा० सू० ८०३ ) इत्यात्वम् । तथाच ' त्रासीष्ट ' इति सिद्धम् । अत्र ‘त्रासीष्ट ' इति क्रियापदम् । कः कर्ता ? । कृतान्तः । कान् कर्मतापन्नान् ! । ' असुमतः ' असवः-प्राणाः विद्यन्ते येषां ते असुमन्तः तान् । कस्मात् ? । जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः ' जलं - समुद्रादि व्यालः- सर्पः व्याघ्रः - सिंहः ज्वलनो - वन्हिः गजः -- करी रुग् - रोगः बन्धनं - काराक्षेपः युत्-सङ्ग्रामः, जलं च व्यालश्च व्याघ्रश्च जलनश्च गजश्च रुकू च बन्धनं च युच्च जलव्यालव्याघ्रज्वलनगज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org