________________
जिमसातयः
स्तुतिचतुर्विंशतिका
२३५
मलमदारो'। पुनः किंविशिष्टो जिनाधीशनिवहः ? । 'सः' प्रसिद्धः। तच्छब्दो बच्छब्दमपेक्षते । सकायोजिनाधीशनिवहः अलं-अत्यर्थविश्व-जगत इत-गतं तमः-अज्ञानं यस्मात तत इततमःगता. ज्ञानं प्रचके इत्यन्वयः। 'पचके' इति क्रियापदम् । कः कर्ता ? । 'य' 'जिनाधीशनिवहः । 'प्रचक्रे' प्रकर्षेण कृतवान् । किं कर्मतापनम् ? । 'विश्वं ' जगत् । किंविशिष्टं विश्वम् । इततमः' । कथम् । 'अलं' अत्यर्थम्। किंविशिष्टो यः?। ('सदानः) अभयदानादिना वार्षिकदानादिना वा सहितः। केषाम् ? | 'दीनानाम् ' दुःखितानाम् । पुनः किंविशिष्टो यः । न विद्यते दारैः-स्त्रीभिः ईरिततमः--अतिशयेन प्रेरण यस्य सः'अदारेरिततमः' । एतादृशो जिनसमूहो जयति । इति पदार्थः ॥ ___ अथ समासः-नखानां अंशवः नखांशवः, नखांशूनां श्रेण्यः नखांशुश्रेण्यः, तामिः नखांशुश्रेणीभिः। नमन्तश्च ते नाकिनश्च नमन्नाकिनः, नमन्नाकिनां मुकुटाः नमनाकिमुकुटाः,कपिशिताः नमनाकिमुकुटा येन स कपिशितनमनाकिमुकुटः । नुदः-प्रेरणं अस्यास्तीति नोदी । नानाविधा आमया नानामयाः, नानामयाश्च मलाश्च मदाश्च नानामयमलमदाः, नानामयमलमदा एव अरिः नानामयमलमदारित, तस्य नानामयमलमदारः। इतं-गतं तमः-अज्ञानं यस्मात् तत् इततमः।जिनानां अधीशा जिनाधीशाः, जिनाधीशानां निवहः जिनाधीशनिवहः । दानेन सहितः सदानः । अतिशयेन ईरित इति ईरिततमः, नास्ति दारैः ईरिततमः अदारेरिततमः । इति द्वितीयवृत्तार्थः॥१॥
दे०व्या०-नखांश्चिति । स जिनाधीशनिवहो-जिनपतिसमूहः अलं-अत्यर्थे जयति-सर्वोत्कर्षण वर्तत इत्यन्वयः।'जि जये' धातुः । 'जयाति' इति क्रियापदम् । कः कर्ता! निनाधीशनिवडः । कथम् अलंअत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् । किंविशिष्टो जिनाधीशनिवहः । 'कपिशितनमन्नाकिमुकुटः, नमन्तश्च ते नाकिनश्चेति पूर्व 'कर्मधारयः, ततः कपिशिताः-पिशङ्गीकृताः कर्चुरीकृता इतियावत् नमनाकिना-प्रणमद्देवानां मुकुटा:-किरीटा येनेति 'तृतीयाबहुव्रीहिः ।" पिशङ्कः कपिशो हरिः" इत्यभिधानचिन्तामणिः (का०६, श्लो० ३२)। काभिः । 'नखांशुश्रेणीभिः । अंशूनां श्रेण्यः अंशुश्रेण्य इति पूर्व 'षष्ठीतत्पुरुषः, ततः नखा:-कररुहाः तेषां अंशुश्रेण्यः-किरणसमूहाः ताभिरिति विग्रहः। किंविशिष्टः । नोदी-प्रेरकः । कस्य ?। 'नानामयमलमदारेः ' आमयो-रोगः, " आम आमय आकल्पः (त्यम्)" इत्यभिधानचिन्तामणिः (का० ३, श्लो० १२७ ), मल:-कर्मलेपः मदः-अहंकृतिः एतेषां 'द्वन्दः', पश्चानानापदेन 'कर्मधारयः,, तेषां अरि:-शत्रुर्यः स तस्य । पुनः किंविशिष्टः। 'सदानः दानं-वितरणं तेन सह वर्तमानः । केषाम् ।। दीनाना-दु:खितानाम् । पुनः किंविशिष्टः।।' अदरिरिततमः । दारा:-कलत्राणि
रिततमः-अतिशयेन व्याक्षिप्तचेती नेत्यर्थः । यत्तदोनित्याभिसम्बन्धाद् यो जिनाधीशनिवहः विश्वंविष्टपं इततमः-गततमः चके-चकार । 'डुकृञ् करणे' धातुः। 'चक्रे हाते क्रियापदम् । कः कर्ता। जिनाधीशनिवहः। किं कर्मतापन्नम् ? विश्वम् । किविशिष्टं विश्वम् । इततमः हत-गतं तमः-अज्ञाने यस्य तत् ॥ इति द्वितीयवृत्तार्थः॥२॥
सिद्धान्तपरिचय:
जल-व्याल-व्याघ्र-ज्वलन-गज रुग्-बन्धन-युधो __गुरुवाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभागुरुर्वाऽहो ! पाता पदघनगरीयानसुमतः ॥३॥
-शिख०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org