________________
२३४ स्तुतिचतुविशतिका
[ २१ श्रीरमिसि. वृ०-नखांश्चिति । सोऽयं-स एष जिनाधीशनिवहः-तीर्थकरसमूहः सदा-सर्वदा अर-अत्यर्थ जयति-सर्वतः अतिशायीमवतीत्यर्थः। 'नि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासाधनिका पूर्ववत् । अत्र ' जयति । इति क्रियापदम् । कः का ? । 'जिनाधीशनिवहः । जिनानां जिनेषु वा अधीशा:-स्वामिनः तेषां निवहो-निकुरम्बो जिनाधीशनिवहः । “समूहो निवहव्यूह-सन्दोहविसरबनाः " इत्यमरः ( श्लो० १०१५)। कथंभूतो निनाधीशनिवहः ?। 'कपिशितनमन्नाकिमकुटः' कपिशिताःपिशङ्गीकृता नमन्तो ये नाकिनः-देवाः तेषां मुकुटा:-किरीटानि येन स तथा । " पिशङ्गः कपिशो हरिः ". इति हैमः ( का० ६, श्लो० ३२ ) । “मौलिः कोटीरमुष्णीषं, किरीटं मुकुटोऽस्त्रियाम्" इति वैजयन्ती । " मौलिः किरीट कोटीरमुष्णीष " इति ( अभिधान )चिन्तामणौ ( का० ३, श्लो० ३१५ ) । काभिः कृत्वा ? । ' नखांशुश्रेणीमिः' नखाः-करशूकाः तेषां अंशवो-मयूखास्तेषां श्रेणयः-पतयः ताभिः । पुनः कथंभूतः ? ।' नोदी ' नुदतीत्येवंशीलो नोदी, दूरीकरणशील इत्यर्थः । ' नुद स्फेटने ' ' सुप्यनातौ०' (पा० अ० ३, पा०२, सू० ७८ ) इति णिनिः । कस्य ? । 'नानामयमलमदारेः' नाना-विविधप्रकारा ये आमया-रोगाः मला:-पापानि मदा:-जात्याद्यहङ्कृतयस्त एव अरिः तस्य, आमयाश्च मलाश्च मदाश्च आमयमलमदाः । इतरेतरद्वन्द्वः' । नाना च ते आमयमलमदाश्च नानामयमलमदाः 'कर्मधारयः । अरिरिवारिः, नानामय (मलमदा एव अरिः नाना०) इति 'कर्मधारयः' । पुनः कथंभूतः ? । सदानः-दानसहितः । केषाम् ? । दीनानां-कृपणानाम् । पुनः कथंभूतः । · अनारेरिततमः' दौरैः-स्त्रीमिरीरितो-ध्यानाच्चालितः दारेरितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः, स्त्रीमिाक्षिप्तचित्तो नेत्यर्थः । अतिशयेऽर्थे तमप् । स इति स कः ? । यो जिनाधीशनिवहः विश्व-जगत् इततमः-गतमोहं चक्रे–चकारेत्यर्थः । डुकृञ् करणे' धातोः परोक्षे आत्मनेपदे प्रथमपुरुषैकवचनम् । विश्व ' ( सा० सू० ७१० ) इति द्वित्वम् । । । ( सा० स० ७६८ ) इत्यनेन ऋकारस्याकारः । ' कुहोश्चः ' ( सा० सू० ७४६.)। रं' ( सा० स० ३९ ) । ' स्वरहीनं ० १ ( सा० स० ३६ )। तथाच ' चक्रे ' इति सिद्धम् । अत्र च ' चक्रे ' इति क्रियापदम् । कः कर्ता ? । यः । किं कर्मतापन्नम् ! । विश्वम् । कीदृशम् ! । ' इततमः " इत-गतं तमः-अज्ञानं शोको वा यस्य तत् इततमः । " तमोऽन्धकारे स्वर्भानौ, तमः शोके गुणान्तरे " इत्यमरः (!)॥१॥
सौ० वृ०-नखांश्विति । अयं-प्रत्यक्षो मानसगतः स्थापनागतो वा स-प्रसिद्धो जिनाधीशनिवहः-तीर्थकरसमूहः सदा-सर्वदा जयति इत्यन्वयः । 'जयति' इति क्रियापदम् । कः कर्ता। 'जिनाधीशनिवहः'। 'जयति' सर्वातिशयोत्कर्षेण वर्तते । किंविशिष्टो जिनाधीशनिवहः । कपिशिताः-पिचरीकृताः नमन्तो ये नाकिनो-देवास्तेषां मुकुटानि-किरीटानि येन सः ‘कपिशितनमन्नाकिमुकुटः'।काभिः? । नखानां करजानां अंशव:-किरणास्तेषां श्रेण्यो-राजयः ताभिः नखांशुश्रेणीभिः । किंविशिष्टो जिनाधीशनिवहः।'नोदी'प्रेरणशीलः, वार्यमाणत्वात्। कस्य । नानाप्रकारा आमया-रोगाः मला:-कर्ममलाः मदा:-जात्यादयः त एव अरय:-शत्रवः, जाती एकवचनं, नानामयमलमदारिः तस्य'नानामय
१'अरिः-शत्रुः' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org