________________
२३३
जिनस्तुतयः]
स्ततिचतुर्विंशतिका जिनेश्वराणां जयः
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः
सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥ २ ॥
-शिख० ज० वि.-नखांश्चिति । सोऽयं–प्त एष जिनाधीशनिवड:-तीर्थकरनिकरः सदा-सर्वदा अलं-अत्यर्थ जयति-सर्वतः अतिशायीभवति इति क्रियाकारकसम्बन्धः । अत्र 'जयति । इति क्रियापदम् । कः कर्ता ? 'जिनाधीशनिवहः । कथम् ? 'सदा'। पुनः कथम् ? 'अळम् ।। जिनाधीशनिवहः कथंभूतः १ 'कपिशितनमन्नाकिमुकुटः ' कपिशिता:-पिङ्गिताः नमनाकिमुकुटा:-- प्रणमत्सुरशिरोमणयो येन स तथा । काभिः कृत्वा ? ' नखांशुश्रेणीभिः ' नखमयूखमालाभिः। पुनः कथं० १ 'नोदी' प्रेरणशीलः, दूरीकरणशील इत्यर्थः । कस्य ? ' नानामयमलमदारे। नाना-अनेकरूपाः ये आमया:-रोगाः मला:-कर्ममलाः मदा:-जात्यादिरूपाः त एवारिः तस्य । पुनः कथं० १ 'सदानः । दानसहितः । केषाम् ? ' दीनानां ' कृपणानाम् । पुनः कथं ? । अदारेरिततमः । दारैः-स्त्रीभिः ईरितो-ध्यानाचालितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः । स इति तच्छब्दसम्बन्धाद् यच्छब्दयोजनामाह-यो विश्व-जगत इततमः-गतमोहं प्रचक्रे-कृतवान् । अत्रापि 'प्रचक्रे । इति क्रियापदम् । कः कर्ता ? ' यः ।। किं कर्मतापनम् ? 'विश्वम् ।। कथंभूतम् ? ' इततमः ॥
अथ समासः-नखाना अंशवः नखांशवः ' तत्पुरुषः । । नखांशूनां श्रेण्यः नखा० 'तत्पुरुषः । ताभिः नखां० । नमन्तश्च ते नाकिनश्च नम० 'कर्मधारयः । नमनाकिना मुकुटाः नम० ' तत्पुरुषः' । कपिशिता नमनाकिमुकुटा येन स कपिशित. 'बहुव्रीहिः ।। भामयाश्च पलाश्च मैदाश्च आमयमलमदाः 'इतरेतरद्वन्दः। नाना च ते आमयमलमदाश्च नानामय०
कर्मधारयः । अरिरिवारिः । नानामयमळमदा एवारिनोनामय० 'कर्मधारयः। तस्य नानामयः । इतं तमो यस्मात् तद् इततमः 'बहुव्रीहिः । जिनानां जिनेषु वा अधीशा निनाधीशाः 'तत्पुरुषः । जिनाधीशानां निवहो जिना० ' तत्पुरुषः । । सह दानेन वर्तते य: स सदानः 'तत्पुरुषः ।।दारैरीरितो दारेरितः ' तत्पुरुषः । न दारेरितः अदारेरितः । तत्पुरुषः । अतिशयेनादारेरितः अदारेरिततमः । इति काव्यार्थः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org