________________
स्तुतिचतुर्विशतिका
[२१ श्रीमामि
स्यामन्त्रणे) अशाठ्यप्रचार!। हे 'उदितमदनमेघानिल !' हे प्रकटितकामघमप्रचण्डपबन , तनिर्धाटकत्वात् । हे 'पितः!' हे निष्कारणेन जगज्जन्तुरक्षकत्वात् जनक !। त्वं मे-मम अघानि-पापानि सततसदा प्रविकिर इत्यन्वयः। 'प्रविकिर' इति क्रियापदम् । कः कर्ता ? । 'त्वम्'। 'प्रविकिर' निरस्य-दूर क्षिप। कानि कर्मतापनामि। 'अघानि' पापानि । कस्य ? । 'मे' मम । कथम् ! । 'सततं' निरन्तरम् । किविशिटानि अघानि । 'वितन्वन्ति । विस्तारं कुर्वन्ति । के कर्मतापत्रम् ? । 'आयासं' श्रम भवभ्रमणलक्षणम् । कस्य ।। 'मम' । किंविशिष्टस्त्वम् ? । 'लपितः' हृद्यकथकः । केषाम ? । यानि-मनोहराणि यानि चासि हृधवासि तेषां हृयवचसाम् । किंविशिष्टानां हृद्यवचसाम् ।। नमन्ती-प्रणमन्ती मा भव्यानां-मुक्तिगमनयोग्यानां श्रेणी-राजिः तस्याः भवभयं-संसारमयं तस्य भेदनशीलाना 'ममद्भव्यश्रेणीभवभयभिवाम् । तादृशस्त्वं मम दुरितानि प्रविकिर-दूरं प्रक्षिप । इति पदार्थः ।।
अथ समासः-स्फुरन्ती चासौ विद्युच्च स्फुरद्विद्युत्, स्फुरद्रिादिव कान्तिर्यस्य स स्फुरविधुकान्तिः, सस्य सं० हे स्फुरद्विद्युत्कान्ते !। दितो मदो येन स दितमदः, तस्य सं० हे दितमद ! । लपतिभाषते इति लपित्तः । नमन्तश्च ते भव्याश्च नमव्याः , नमद्भव्यानां श्रेणी नमद्भव्यश्रेणी, भवस्य भयं भवभयं, नमद्भव्यश्रेण्या भवभये नमजव्यश्रेणीभवभयं, नमद्भव्यश्रेणीभवभयं भिन्दन्ति तानि नमद्भव्य. श्रेणी भवभयभीन्दि, तेषां नमद्भव्यश्रेणीभवभयभिदाम् । हृद्यानि च तानिवासि च हृद्यवचांसि, तेषां हृधवचसाम् । मायायाः सञ्चारो मायासञ्चारः, नास्ति मायासञ्चारो यस्य सः अमायासञ्चारः, तस्य सं० हे अमायासश्चार ! । उदितश्चासौ मदनश्च उदितमदनः, उदितमदन एव मेघः उदितमदनमेधः, ( उदितमदममेघे) अनिल इवानिलः, उदितमदनमेधानिलः, तस्य सं० उदितमदनमेघानिल! । पातीति पिता
पितः।। क्वचिदूतस्यन्तरे लपित इति विशेषणं संबोधनमप्यस्ति तत्र लपते इति लपिता तस्य सं०हे लपितः ! इत्यपि समासः । शिखरिणीच्छन्दसा स्तुतिरियम् । इति प्रथमवृत्तार्थः ॥१॥
देवव्या०-स्फुरद्विादिति । हे नमे!-नमिजिन ! त्वं मम अघानि-पापानि सततं प्रविकिर-प्रकर्षण विक्षेपय इत्यन्वयः। 'कविक्षेपे' धातुः । 'प्रविकिर' इति क्रियापदम् । कः कर्ता। त्वम् । कानि कर्मतापलानि ।। अघानि । कथम् ।।सतत-निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् । किं कुर्वन्ति अघानि? | वितन्वन्ति-विस्तारयमाणानि । किम् । आयासं-परिश्रमम् । संसारदुःस्वमितियावत् । 'स्फुरवियुत्कान्से !! इति । स्फुरन्ती-इतस्ततश्वलन्ती या तडिद्-विद्युत् तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणं, सुवर्णवर्णशरीरत्वात् । 'चारो !' इति | चारो !-दर्शनोय ! इति प्राञ्चः। 'दितमद !' इति । दितः-खण्डितो मदः-मुन्मोहसम्मेदो येन स तस्यामन्त्रणम् । 'लपितः !' इति । प्रजल्पक ! इत्यर्थः । केषाम् ! । 'हृद्यवचसाम्' हृद्यानिमनोज्ञानि वासि-वचनानि येषां तेषाम् । किविशिष्टानां हृधवचसाम् ? । 'नमद्भव्यश्रेणीभवभयभिदाम् । नमन्ती-प्रणामं कुर्वन्ती या 'भव्यश्रेणी' भव्याना-भव्यप्राणिनां श्रेणी-सन्ततिः तस्याः 'भवभयं । भवस्यसंसारस्य भयं-साध्वसं भिन्दन्ति-विदारयन्तीति तथा तेषाम् । 'अमायासञ्चार!' इति । नास्ति माययाकपटेन सञ्चारः-प्रचारौ यस्य स तस्यामन्त्रणम् । 'उदितमदनमेधानिल ! ' इति । उदितः-उदयं प्राप्तः यो मदन:-कन्दः स एव मेघः-पर्जन्यः सस्मिन्, विघटनहेतुत्वात् अनिल इव अमिलो यः स तस्यामन्त्रणम् । 'पितः' ! इति आमन्त्रणे पदम्, जनक इव हितकारित्वात् । एतानि सर्वाण्यपि नमः सम्बोधमपदानि ॥ इति प्रथमवृत्तार्थः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.