________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका धारयः ।। अनिल इवानिलः । उदितमदनमेघेऽनिला उदित० 'तत्पुरुषः । तत्सम्बो० हे उदितः । इति काव्यार्थः॥१॥
सि० ४०-स्फुरद्विादिति। परीषहादिनाऽनमनान्नमिः, गर्मस्थेऽस्मिन् वैरिनपैः रुद्धे परे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमालोक्य ते वैरिनपाः प्रणता इति वा नमिः, तस्य संबोधनं हे नमे !-नमिनामजिनपते ! त्वं मम सततं-सर्वदा अघानि-पापानि प्रविकिर-विक्षिपेत्यर्थः । प्रपूर्वक 'क विक्षेपे' धातोः ' आशीःप्रेरणयोः' (सा० सू० ७०३) मध्यमपुरुषैकवचनं हि । ' अप० । (सा० सू० १९१), ' ऋत इर् ' (सा० स० ८२०), ' अतः' (सा० सू० ७०५) इति हेर्लक्, 'स्वरहीनं ' (सा० स० ३६) । तथाच 'प्रविकिर' इति सिद्धम् । अत्र 'प्रविकिर' इति क्रियापदम् । कः कतो !। त्वम् । कानि कर्मतापन्नानि ? । अघानि । “अयं तु व्यसने प्रोक्त-मघं दुरितदुःखयोः" इति विश्वः । कस्य । मम । कथम् ? । सततम् । अघानि किं कुर्वन्ति ?। वितन्वन्ति । 'तनु विस्तारे ' वितन्वन्ति तानि विस्तारयमाणानि । किम् ? । आयासं-श्रम, भवभ्रमणक्लेशमित्यर्थः । अवशिष्टानि सर्वाणि नमेः संबोधनानि, तेषां व्याख्या यथा-हे ' स्फुरद्विद्युत्कान्ते! ' स्फुरन्ती-इतस्ततः चलन्ती या विद्युत्-तडित् तद्वत् कान्ति:शरीरद्युतिर्यस्य स तस्य संबोधनं हे स्फुर० । हे 'चौर!' चरतीति चरः चर एव चारः । प्रैज्ञादित्वादण । तस्य संबोधनं हे चार ! दर्शनीय इत्यर्थः । हे 'दितमद ! ।। दितः-खण्डितो मदो-दो मुन्मोहसंभेदो वा येन स तथा तस्य सं० । हे 'लपितः ! लपति-कथयतीत्येवंशीलः लपिता तस्य सं० हे लपितः । 'लप परिमाषणे । कर्तरि क्तः । केषाम् ? । ' हृद्यवचतां । हृद्यानि-हृदयंगमानि च तानि वचासि च हृद्यवचांसि तेषां हयवचसाम् । कथंमतानां हृद्यवचसाम् ! । 'नमगव्यश्रेणीभवमयमिदां' नमन्ती-नमस्कारं कुर्वन्सी या मन्यानां मवन्तीति भवन्त्येभिरिति वा मव्याः ‘मन्यगेय.' (पा० अ० ३, पा० ४, सू०६८)इति निपातः तेषां सम्यग्दृशामित्यर्थः श्रेणी-पंक्तिः तस्याः मवभयं भवस्य-संसारस्य भयं--मीति मिन्दन्ति-विदारयन्ति तानि तथोक्तानि तेषां नमद्भव्यश्रेणीमवमयमिदाम् । “ श्रेणी लेखास्तु राजयः" इत्यमरः (श्लो० १५१)। हे 'अमायासञ्चार!' नास्ति मायायाः-निकृतेः-शाठ्यस्य सञ्चारः-प्रचारो यस्मिन् स तथा तस्य सं०। हे 'उदितमदनमेघानिल! ' उदितः-उदयं प्राप्तः यो मदन:-कामः स एव मेघः-पर्जन्यः तस्य तस्मिन् वा अनिल इव अनिलो-वायुः तस्य सं० । प्रादुर्मतकन्दर्पमेधविघट्टने पवनकल्प इति निष्कर्षः । हे पितः' पाति रक्षतीति पिता तस्य संबोधनम्, निष्कारणहितकारित्वादिति भावः ॥ १॥
सौ० वृक्ष-यो मुनिवत् सुव्रतो-महात्मा भवति तं प्रति सर्वेऽपि नमन्ति । तथा गर्भस्थे भगवति मातुर्दर्शनेन सर्वेऽपि शत्रवो नताः । अनेन सम्बन्धेनायातस्यैकविंशतितमश्रीनामिनाथजिनस्य स्तुते. रयों लिख्यते-स्फुरद्विधुदिति।
हे 'नमे!' हे नमिजिनपते ! । पुनः स्फुरन्ती-दीप्यन्ती या विधुव-तखित तद्वद कान्ति:प्रमा यस्य स स्फुरद्विद्युत्कान्तिः तस्य सं० हे 'स्फुरद्विद्युत्कान्ते।। हे चारो! हे मनोज्ञ!। हे 'दितमद !' हे खण्डितदर्प ! 'हे अमायासञ्चार !' नास्ति मायायाः सञ्चार:-प्रचारो यस्मिन त
१ इदं चिन्त्यमिव प्रतिभाति । २ 'प्रवा_श्रद्धावृत्तिभ्योऽण् ' इति सारस्वते (सू. ६१९) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org