________________
जिस्ततया]
स्तुतिचतुर्विशतिका
२३९
उज्ज्वली चलनौ-पादौ यस्याः सा तथा । काली किं कुर्वाणा ? 'समध्यासीना' सम्यक् अधिरोहन्ती । किं कर्षताफ्नम् ? ' नालिकवरं ' प्रधानपद्मम् । नालिकवरं कथंभूतम् ? ' विशदचलनानालिकबरं । विशन्तः-निलीयमानाः अचला:-स्थिराः एतादृशा ये नानालिनः नानालयो वा-विचित्रमधुकराः तैः कवरं-कर्बुरम् । अत्र यमकवशात् बक्योरैक्यम् । काली पुनः कथं० १ ' अम्भोभृतघननिभा जलभरितमेघप्रभा, श्यामवर्णेत्यर्थः । पुनः कथं०? ' अम्भोचितनयासमानाली । अम्भोधितनया-क्ष्मीः तस्याः असमाना-अनन्यसमा आली-सखी ।
___ अथ समासः-विपक्षाणां न्यूहः विपक्षव्यूहः 'तत्पुरुषः।। तं विपक्ष । गदा च अक्षावलिय गदाक्षावली ' इतस्तरद्वन्द्वः ।। गदाक्षावली धारयतीति गदाक्षावलिक 'तत्पुरुषः। मसमा असमा तम्पुरुषः । नालीकानामालीनालीकाली 'तत्पुरुषः । नालीकाकीबद् विशदौ नालीका० 'तत्पुरुषः' । नालीकालीविशदौ चलनौ यस्याः सा नाली० 'बहुव्रीहिः'। नालीकेषु वरं नालीक० ' तत्पुरुषः' । अम्भोभिभृतः अम्भोभृतः 'तत्पुरुषः । अम्भोभतश्चासौ घनश्च अम्भो० 'कर्मधारयः' । अम्भोभूतघनवत् निभा यस्याः सा अम्भोभत० 'बहुव्रीहिः'। अम्भोधेस्तनया अम्भोधि० 'तत्पुरुषः । न समाना असमाना 'तत्पुरुषः । असमाना चासो आली च असमा० 'कर्मधारयः' । अम्भोधितनयाया असमाना आली अम्भोधि० 'तत्पुरुषः'। नाना-विविधाश्च ते अलिनश्च नानालिनः ‘कर्मधारयः । न चला अचलाः 'तत्पुरुषः । अचलाच ते नानालिनश्च अचलनाना 'कर्मधारयः । विशन्तश्च ते अचल नानालिनश्च विशदचल. 'कर्मधारयः ।। विशदचलनानालिभिः कबरं विशद० 'तत्पुरुषः'। तत् विशद० । इति काव्यार्थः ॥ ४॥
॥इति शोमनस्तुतिवृत्तौ श्रीनमिजिनपतेः स्तुतेाख्या ॥ २१ ॥ सि० वृ० विपक्षेति । काली-कालीनाम्नी देवी वो-युष्माकं विपक्षव्यूह -शत्रुवात-वैरिसमूह दलयतु-विनाशयतु इत्यर्थः । ' दल दलने ' धातोण्यन्तस्य · आशीःप्रेरणयोः । (सा० स० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तुम्। ' चुरादेः [ निः] ' ( सा० सू० १०३९ ) इति निः । । अप् कतार । (सा० स० ६९१) इत्यप् । ' गुणः । (सा०स० १९२) इति गुणः । 'ए अय् ' ( सा. स०४१)। ' स्वरहीनं० १ (सा० स० ३६ )। तथाच — दलयतु' इति सिद्धम् । अत्र * दलयतु ' इति क्रियापदम् । का की । काली । कं कर्मतापन्नम् ? । 'विपक्षव्यूह ' विपक्षणां-शत्रूणां न्यहो-निकरस्तम् । " व्यहः स्याद् बलविन्यासे, निर्माण वृन्दतर्कयोः" इति विश्वः । केषाम् ? | वः । षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः । कथंभूता काली ? | ‘गदाक्षावलिधरा' गदा-शस्त्रविशेषः अक्षावलि:-माला गदा च अक्षावली च गदाक्षावली · इतरेतरद्वन्द्वः, ' ते धरतीति गदाक्षावलिधरा । पुनः कथंभूता ! । असमा -असदृशी, निरुपमेत्यर्थः । पुनः कथंमता ! । 'नालीकालीविशदचना' नालीकानां-क्रमलानां आलि:
अम्भोभृतघनेन निभा अम्भो० ' तत्पुरुषः' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org