________________
२४० स्तुतिचतुर्विशतिका
[२१ श्रीनमिश्रेणी तद्वद् विशदौ-निर्मलो ( चलनौ-) पादौ यस्याः सा तथा । काली किं कुर्वाणा: । समध्यासीनासम्यगधिरोहन्ती। कम् ? । ' नालीकवरं ' नालं विद्यते येषु तानि नालीकानि तेषु नालीकेषु-कमलेषु वरं-प्रधान नालीकवरम् । कथंभूतं नालीकवरम् । विशदचलनानालिकबर' विशन्तो-निलीयमानाः अचलाः-स्थिराः एवंभूता ये नाना-विविधप्रकाराः अलयो-भ्रमराः तैः कबरं-कर्बुरम् । विशन्तश्च ते अचलाश्च ते नानालयश्च विशदचलनानालय इति पूर्व ' कर्मधारयः' । अत्र यमकवशाद् बवयोरक्यम् । काली पुनः कथंमता । ' अमोमृतघननिमा ' अम्म:-जलं तेन भृतः-पूर्णः यो घनः-मेघः तेन निभा-तुल्या या सा तथा, सजलजलघरकन्नीलवणेति फलिनार्थः । पुनः कथंभूता ? ' अम्भोधितनयासमानाली ' अम्भोधितनया-लक्ष्मीः तया समानाः -तुल्याः आल्या-सख्यो यस्याः सा तथा। क्षीरोदतनया रमा इत्यमरः (क्षेपक)। "हरिप्रिया पद्मवाला क्षीरोदतनयाऽपि च " इति हैमः ( का० २, श्लो० १४० )। शिखरिणीवृत्तम् ॥ “ रसै रुद्वैश्छिन्ना यमनसम ला गः शिखरिणी " इति च लक्षगमुन्नेयम् ॥ ४ ॥
॥ इति महामहोपाध्याय. श्रीनमिनाथजिनस्य स्तुतिवृत्तिः ॥ २१ ॥ सौ० वृक्ष-विपक्षेति । कालीनाम्नी देवी वो-युष्माकं विपक्षाः-वैरिणः तेषां व्यूहः-समूहः तं विपक्षयूह दलयतु इत्यन्वयः । 'दलयतु' इति क्रियापदम् । का की ? । 'काली' । 'दलयतु' पिनष्टु । कं कर्मतापन्नम् ? । 'विपक्षव्यूहम् ' । केषाम् ? । 'वः' युष्माकम् । किंविशिष्टा काली ? । ‘गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः-जाण्यमाला ते द्वे धरतीति गदाक्षावलिधरा । पुनः किंविशिष्टा काली! 'असमा' लावण्यैश्वर्यादिगुणैर्नान्यसदशी। पुनः किंविशिष्ठा कालीनालीकानि-कमलानि तेषां आली-श्रेणिः तद्वद् विशदौ-निर्मलौ चल नौ-चरणो यस्याः सा 'नालीकालीविशदचलना'। पुनःकाली किं कुर्वाणा ? । सम्यक् प्रकारेण अध्यासीना-आरूढा 'समध्यासीना' । किं कर्मतापन्नम् । 'नालिकवरं ' कमलेषु प्रधान, बवयोरैक्यं यमकत्वात् । पुनः किंविशिष्टा काली । अम्भोभिः भूता-पूर्णों यो धनो-मेघः तस्य (तेन?) निभा-सदृशी, धनश्यामवर्णा । पुनः किंविशिष्टा काली। अम्भोधिः-समुद्रः तस्य तनया-लक्ष्मीः तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधितनयासमानाली। किंविशिष्टं नालिकवरम् ? । विशन्तः-प्रविशन्तः अचला:-स्थिरा--लीना नानाप्रकारा-विचित्रा अलय:अलिनो या तैः कबरं-मिश्रितं 'विशदचलनानालिकबरम्' । बत्योरैक्यम् । एवंविधा काली देवी युष्माकं विपक्षव्यूहं पिनष्टु । इति पदार्थः ॥ ___ अथ समासः-विरुद्धपक्षा विपक्षाः, विपक्षाणां न्यूहः विपक्षन्यूहः, ते विपक्षव्युहम् । अक्षाणां आवलिः ( अक्षावलिः), गदा च अक्षावलिश्च गदाक्षावली, गढ़ाक्षावली धारयतीति गढ़ाक्षावलिघर!, न विद्यते समा-सशी यस्याः सा असमा, नालीकानां आली नालीकाली. नालीकालीवद विशदौ चलनी यस्याः सा नालीकालीविशदचलना । नालि के षु वरं नालिक वरं तत् नालिक वरम् । सम्यक् प्रकारेण अध्यासीना समध्यासीना। अम्भोभिः भृतः अम्भोभृतः, अम्भोभृतश्चासौ घनश्च अम्मोभृतघनः, अम्भोभृतधनस्य (घनेन?) निभाअम्भोभृतघननिभा। अम्भांसि धीयन्ते अस्मिन्निति अम्भोधिः अम्भोधेस्तनया अम्भोधितनया-लक्ष्मीः, तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधितनयासमानाली। नाना-विचित्राः अलयः अलिनो वा नानालयः, न चला अचला; अचलाश्च ते नानालयश्च अचलनानालयः, विशन्तश्च ते अचलनानालयश्च विशदचलनानालयः, विशदचलनानालिभिः कवरं विशदचलनानालिकबरम् । इत्येकर्विशतितमश्रीनमिनाथजिनस्तुतिः।।४।२१। ८४॥
१ यथा प्रत्येकस्तुतिचतुष्टयसमाप्तौ पद्यं दृश्यते, तथाऽत्र न इति विशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org