SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका २४१ या०-विपक्षेति । काली देवी वो-युष्माकं 'विपक्षव्यूहं' विपक्षाः-शत्रवः तेषां न्यूह-समूह दलयतु-मर्दयतु इत्यन्वयः। 'दलयतु' इति क्रियापदम् । का कत्री?। काली। कं कर्मतापन्नम् ।। विपक्षव्यूहम् । किंविशिष्टा देवी?'गदाक्षावलिधरा ' गदा-शस्रविशेषः अक्षावलिः-जपमाला अनयो'ईन्द्व, ते बिभर्ति-धारयतीति तथा। पुनः किंविशिष्टा । 'असमा' नास्ति बलेनेति शेषः समः-महशो यस्याः सा तथा। पुनः किंविशिष्टा ? । 'नालीकालीविशदचलना' नालीकं-कमलं तस्य आली-परम्परा तद् विशदीउज्ज्वली चलनी (-पादो) यस्याः सा तथा। "बिसप्रसूतं नालीकं" इत्यभिधानचिन्तामणिः (का०४, श्लोक २२७)। पुनः किंविशिष्टा?। समध्यासीना-अध्यारूढा । किम् । नालिकवरं-प्रधानकमलम् । नालिकेषु वरं नालिकवरं इति समासः। बवयोरभेदादत्र वकारस्थाने बकारग्रहणम् । पुनः किंविशिष्टा ?'अम्भोभृतघननिमा। अम्भ:--पयस्तेन भृतः-पूर्णो यो घनो-मेघः तेन निभा-सदृशा, सजलजलधरवत् कृष्णवर्णेत्यर्थः। पुनः किंविशिष्ता । 'अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तस्याः समानाः सदृशाः आल्य:सख्यो यस्याः सा तथा। किंविशिष्टं नालिकवरम् ? । 'विशदचलनानालिकबरम् ' विशन्ती-निलीयमानाः अचला:-स्थिरा नाना-अनेके ये अलयो-भ्रमराः तैः कबरं-मिश्रितम् । “करम्बः कबरो मिश्रः " इत्यभिधानचिन्तामणिः (का०६, श्लो०१०५)॥ इति तुरीयवृत्तार्थः॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy