________________
२२ श्रीनेमिजिनस्तुतयः अथ श्रीनेमिनाथाय नमस्कार:
चिक्षेपोर्जितराजकं रणमुखे योऽ लक्ष्यसङ्ख्यं क्षणा.
दक्षामं जैन ! भासमानमहसं 'राजीमती' तापदम । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ १॥
-शार्दूल. ज० वि०-विक्षेपोर्जितेति । हे जन ! त्वं तं नेमि-नेमिनामानं जिनं नम प्रणिपत इनि क्रियाकारकसंयोजनम् । अत्र 'नम' इति क्रियापदम् । कः कर्ता ? ' त्वम्।। के कर्मतापत्रम् ? 'नेमिम् । कथंभूतं नेमिम् ? ' भासमान' विराजमानम्, अथवा जनैर्भासमानं 'जनभासमानम् । एतत्पक्षे सम्बोधनमध्याहृत्य वाच्यम् । पुनः कथं० १ 'अहसं ' अविद्यमानहासम् । पुनः कथं० १'राजीमतीतापदं । राजीमती-उग्रसेनपृथिवीपतेः पुत्री तस्यास्तापदम्, सम्भोगमनोरथविफलीकरणात् तापदायिनम् । पुनः कथं० १ ' नम्रनितिकरं । नम्राणा-नमनशीलानां निति:-सौख्यं शिवं वा करोति स तथा तम् । पुनः कथं० १ अञ्जनभासमानमहसं। अञ्जनभया-कज्जलकान्त्या सयानं-सदृशं महा-तेनः यस्य स तथा तम् । तमिति तच्छब्दा. विनाभावित्वाद् यच्छब्दघटनामाह- य ऊर्जितराजकं-बलवद्राजसमूहं रणमुख-समरारम्भे क्षणात-वेगेन चिक्षेप-निरस्तवान् । अत्रापि 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? 'यः।। कि कर्मतापनम् ? ' (अर्जित)राजकम् ' । कस्मिन् ? 'रणमुखे। कथम् ? 'क्षणात् ।। (अर्जित)राजकं कथंभूतम् ? ' लक्ष्यसङ्ख्यं ' लक्ष्या सख्या यस्य तत् तथा। अथवा अकारप्रश्लेषण अलक्ष्या-अविभाव्या सङ्ख्या -परिमाणं यस्य तत् तथा । पुनः कथं० १ 'अक्षामं ' समर्थम् । पुनर्यच्छब्दयोजनामाह-च-पुनः यो यदूना-यादवानी राजी श्रेणी अतीतापदं-अतिक्रान्तविपदं चक्रे-कृतवान् । अत्रापि 'चक्रे' इति क्रियापदम् । कः कतो ? ' यः।। का कमतापमाम् ! 'राजीम् ।। केषाम् ? 'यदूनाम् ' । राजी कथंभूताम् ? ' अतीतापदम् ।। पुनः कयंभूताम् ? 'दक्षा' असम्मूढास् ॥
___ अथ समासः-राज्ञा समूहः राजकम् । ऊर्जितं च तद् राजकं च ऊर्जित० 'तत्पुरुषः । तव अर्जित । रणस्य मुखं रणरखं ' तत्पुरुषः । तस्मिन् रणमुखे । लक्ष्या सङ्ख्या यस्य
१. लक्षसख्यं ' इत्यपि पाठः । २ जनभासमानं ' इत्यपि संभवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org