________________
जिनस्तुतः ]
स्तुतिचतुर्विंशतिका
२४३
i
वत् लक्ष्यसङ्ख्यं ' बहुव्रीहिः ' । अथवा न लक्ष्या अलक्ष्या ' तत्पुरुषः ' । अलक्ष्या सङ्ख्या यस्य तत् अलक्ष्यसङ्ख्यं 'बहुव्रीहि:' । न क्षामं अक्षामं ' तत्पुरुषः । तद् अक्षामम् । जनैभोसमानः जन० ' तत्पुरुषः ' । तं जन० । न विद्यते इसो यस्य सः अहसः ' बहुव्रीहिः ' । तं अहसम् । तापं ददातीति तापदः ' तत्पुरुषः ' । राजीमत्यास्तापदो राजी ० ' तत्पुरुषः ' । राजी० । निर्वृतिं करोतीति निरृतिकर: ' तत्पुरुषः ' । नम्राणां निर्वृतिकरो नम्रनि० ' तत्पुरुषः ' तं नम्र० । अञ्जनस्य भा अञ्जनमा ' तत्पुरुषः ' । अञ्जनभया समानं अञ्जन० ' तत्पुरुषः ' । अञ्जन भासमानं महो यस्य सः अञ्जनभासमान महा: ' तत्पुरुषः ' । तं अञ्जन • | अतीता आपदो यस्याः सा अतीतापत् ' बहुव्रीहिः ' । तां अती० । इति काव्यार्थः ॥
सि० ० ० - चिक्षेपोर्जितेति । हे जन ! त्वं तं नेर्मि- नेमिनामानं जिनं नम- प्रणिपत इत्यर्थः । प्रहृत्वे शब्दे च ' धातोः ' आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यम पुरुषकवचनम् । अत्र 'नम ' इति क्रियापदम् । कः कर्ता ? । त्वम् । कं कर्मतापन्नम् ।' नेमिं ' धर्मचक्रस्य नेमिवन्नेमिः तं नेमिम्। नेमिशब्द इन्नन्तोऽप्यस्ति, "नेमिनं नौमि मक्त्या" इति प्रयोगात् । कथंभूतं नेमिम् ! | • भासमानं' मासते–शोभते इति भासमानः तं मासमानं, यदिवा जनैर्मास (मा) नं जनमासमानम् । एतत्पक्ष संबोधनमध्याहृत्य वाच्यम् । पुनः कथंभूतम् । ' अहसं' न विद्यते हासो हास्यं यस्य स तथा तम् । "धैर्धरो हासिका हास्यं, हासस्तु हसनं हसः " इति हैम: (का० २, श्लो० २१० ) । पुनः कथंभूतम् ! | ' राजीमतीतापदम् ' राजीमती उग्रसेनवारिण्योः पुत्री तस्याः तापं ददातीति तापदः तम् । ' आसोऽनुपसर्गे कः ' ( पा० अ० ३, पा० २, सू० १ ) । प्रव्रज्याग्रहणेन तन्मनोरथविफलीकरणादिति भावः । पुनः कथंभूतम् ? । ' नम्रनिर्वृतिकरं ' नत्राणां - नमनशीलानां निर्वृर्ति - सौख्यं शिवं वा करोतीति तथा तम् । पुनः कथंभूतम् ? । ' अञ्जनभासमानमहसं ' अञ्जनं कज्जलं तस्य मा - कान्तिः तया समानं - सदृशं महः - तेजो यस्य स तथा तम् । “महश्वो (स्तू ?.) त्सवतेजसोः" इत्यमरः (श्लो० २७९७) । श्यामशरीरत्वेन कज्जलप्रभासाधर्म्यम् । तमिति तच्छब्दाविनामावित्वाद् यच्छन्दघटनामाह - यो नेमिः ऊर्जितराजकं - बलवद्राजसमूहं रणमुखे-सङ्ग्रामारम्भे क्षणात् - क्षणमात्रेण चिक्षेप - निरस्तवानित्यर्थः । ' क्षिप प्रेरणे ' धातोः परोक्षे परस्मैपदे प्रथमपुरुषैकवचनं प् । 'द्विश्व' (सा० सू० ७१० ) इति धातोर्द्वित्वम् । 'सस्वरादिर्द्विरद्विः ' (सा० सू० ७११ ) इति कषयोर्मध्ये कस्य स्वरसहितस्य द्वित्वम् । तथा च किसि इति जाते ' कुहोश्चुः ' (सा० सू० ७४६ ) इति चुत्वम् । ' उपधाया लघोः ' (सा० सू० ७३९ ) इति गुणः । तथाच 'चिक्षेप' इति सिद्धम् । अत्र ' चिक्षेप ' इति क्रियापदम् । कः कर्ता । यः । कं कर्मतापन्नम् ? । 'राजकं " राज्ञा समूहो राजकम् | 'गोत्रो ट्रोरभ्रराज ० ' ( पा० अ० ४, पा० २, सू० १९ ) इति वुञ् । ऊर्जो - बलं जातं अस्य इति ऊर्जितं, ऊर्जितं च तद् राजकं चेति 'कर्मधारयः' । “स सम्राडथ राजकम् (श्ले/ ० १४७४) । राजन्यकं च नृपति-क्षत्रियाणां गणे क्रमात् " इत्यमरः ( श्लो० १४७९ ) । कस्मिन् ! । रणमुखे । “ मुखं मिःसरणे व १ पूर्वापरीभावस्तु मुद्रिते अभिधानचिन्तामणिनामके प्रन्थे ।
1
4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org