________________
२४४
स्तुतिचतुर्विशतिका
[२९ श्रीनेमि.
प्रारम्भोपाययोरपि" इति विश्वः। राजकं कथंभूतम् ! । 'लक्षसङ्ख्यम् ' लक्षाः सङ्ख्या-परिमाणं यस्य तत् तथा। अथवा भकारस्य प्रश्लेषः । अलक्ष्या-अविमान्या सङ्ख्या यस्मात् तत् तथेत्यर्थः । पुनः कथंभूतम् ! | 'अक्षाम' नक्षाम अक्षाम, समर्थमित्यर्थः । क्षायो मः। (सा० सू० १३१३) इति निष्ठातकारस्य मकारः । पुनर्यच्छब्द योजयति । च-पुतः यो यदनां-यदुवंशोत्पन्नानां यादपानां रानी-पतिमतीतापदं चक्रे कृतवानित्यर्थः । 'डुकृञ् करणे ' धातोः कर्तरि परोक्षे आत्मनेपदे प्रथमपुरुषेकवचनम् । ' द्विश्च ' (सा० स० ७१०) इति द्वित्वम् । 'र: । ( सा० स० ७६८ ) इति पूर्वऋकारस्याकारः । 'कुहोश्चुः ' (सा. म० ७११) इति चुत्वम् । 'ऋ ' (सा. सू० ३९ )। ' स्वरहीनं.' ( सा० स० १६)। तथा ' चक्रे ' इति सिद्धम् । अत्र ' चक्रे ' इति क्रियापदम् । कः, कर्ता ! । यः। कां कर्मतापन्नाम् ? । राजीम् । केषाम् ? । यदूनाम् । कथंभूतां राजीम ? । ' अतीतापदं। अतीता-अतिक्रान्ता आपदो-दुरवस्था यस्याः सा ताम् । पुनः कथंभताम् ? । दक्षा-निपुणाम् ॥ १॥
सौ० वृक्ष-यो द्रव्यमावशत्रून् नामयति-वशीकरोति सः अरिष्टेषु-उपद्रवेषु नेमिः-चकमिव भवति तथा गर्भस्थे भगवति जनन्या अरिष्टरत्नमयं चक्रं शय्यापार्श्वे दृष्टम् । अनेन सम्बन्धेनायातस्य द्वाविंशतितमश्रीअरिष्टनिमि)नानो जिनस्य स्तुतेाख्यानं लिख्यते-चिक्षेपोर्जितेति ।
हे जन!-हे भव्यलोक ! त्वं ते नेमि-नेमिजिनं नम इत्यन्वयः। 'नम' इति क्रियापदम् । कः कर्ता। 'त्वम् । 'नम' प्रणम । के कर्मतापक्षन ।। ('नेमि') नोमिनाथम् । किविशिष्टं नेमिम् । नम्राणां-नमनशीलानां निर्वृतिः-मोक्षः सुखं वा तं करोतीति 'नम्रनिर्वृतिकरम्' । पुनः किंविशिष्टं नेमिम ? । 'अहसं' अपगतहास्यम् । पुनः किंविशिष्टं नेमिम् । राजीमत्यां-(उग्रसेन) पुया तापदं-तापदायक, काममनोरथविफलीकरणत्वाद । पुनः किंविशिष्टं नेमिम् ? । अञ्जन-कज्जलं तस्य भा-कान्तिः तत्समानं- सदृक्षं श्यामवर्णमित्यर्थः । पुनः किंविशिष्टं नेमिम् ? । 'तं तं प्रसिद्धम् । तच्छब्दो यच्छन्दमपेक्षते । तं कम् । यो नेमिः रणमुखे-सबन्यामप्रारम्भे ऊर्जितराजकं-उत्कटराजसमूहं क्षणात्-वेगेन चिक्षेप इत्यन्वयः। 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? । 'यः'। 'चिक्षेप' बभन्न वित्रासयामास । किं कर्मतापनम् ? । ऊर्जितराजकम् । कस्मिन् ? । 'रणमुखे। किंविशिष्टं ऊर्जितराजकम् ? । 'लक्षसख्यं' लक्षशः संख्यात्मकं, यद्वा अकारप्रश्लषे नास्ति लक्षशः (लक्ष्या) संख्या यत्र तत् अलक्ष्यसंख्यम् । पुनः किंविशिष्टं ऊर्जितराजकम् ? । 'अक्षामं ' न दुर्बलं, प्रौढपरिकरमित्यर्थः । च-पुनः यो नेमिः यदूना-याववानां राजी-श्रेणिः तां अतीतापदं-गतविपदं चक्रे इत्यन्वयः। चक्रे' इति क्रियापदम् । कः कर्ता? ।
यः नेमिः। 'चके' कृतवान् । कां कर्मतापन्नाम्? । 'राजी' श्रेणिम् । केषाम् ? । 'यदूनाम् ' किंवि. शिष्टा राजीम् ।। 'दक्षा' कुशलाम्। पुनः किंविशिष्टां राजीम् । अतीता-अतिक्रान्ता आपदू-विपद् यस्याःसा अतीतापत तां'अतीतापदम्'। पुनः किविशिष्टां राजीम् । जनेषु-लोकेषु दीप्यमानं महः-तेजो यस्याः सा ताम् ‘जगभासमानमहसम्' । इदमपि विशेषणं नेमिमिति पदेऽपि लगति । एवंविधं श्रीनेमिजिनं भो भव्याः ! यूयं प्रणमत । इति पदार्थः॥
अथ समासः-राज्ञा समूहो राजकं, अर्जितं-उद्धतं च तद् राजकं च ऊर्जितराजकम् । रणस्य मुखं रणमुखं, तस्मिन् रणमुखे । नास्ति लक्षशः (लक्ष्या) सङ्ख्या यस्मिंस्तत् अलक्ष्यसङ्घयम् । न क्षार्म अक्षामं, तद् अक्षामम् । जनेषु भासमानं महो यस्य स जनमासमानमहाः, ते जनभासमानमहसम् । न विद्यते इसो-हासो यस्य सः अहसः, तं अहसम् । तापं ददातीति तापदः, राजीमत्याः तापदो राजी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org