________________
जिनस्वतयः]
स्तुतिचतुर्विशतिका
२४५
मतीतापक, राजीमतीतापदम् । अञ्जनस्य भा अञ्जनमा, अञ्जनभया समानः अञ्जनमासमानः, ते अजनमासमानम् । नमनशीला नम्राः, नम्राणां निवृतिः नम्रनितिः, नननिवृतिं करोतीति नम्र निवृतिकरः, तं नम्रनिवृतिकरम् । अतीता-गता आपदू यस्याः सा अतीताएत्, तां अतीतापदम् । इति प्रथमवृत्तार्थः ३१॥ शार्दूलविक्रीडितम्॥
दे० व्या०-चिक्षेपोर्जितेति । हे जन : हे भव्यलोक ! तं नेमि-नेमिनाथं त्वं नम-नमस्कुरु इत्यन्दयः। 'गम प्रवीभावे' धातुः । 'नम' इति क्रियापदम् । कः कर्ता ? । त्वम् । कं कर्मतापन्नम् ।। नेमिस् । किविशिष्ट नेमिम् । 'नम्रनिर्वतिकरम् । नम्राणां-प्रहीभूतानां निर्वृति-सुखं कैवल्यं मकरोतीति तथा (सम्)। पुनः किंविशिष्टम् । भासमान-शोभमानम् । पुनः किंविशिष्टम् अहसं-हास्थरहितम् । पुनः किंविशिष्टम् । 'राजीमतीतापदम् राजीमती-राजदुहिता तस्याः तापदं-दुःखप्रदम्, प्रव्रज्याग्रहणेन तन्मनोरथविफलीकरणात्। पुनः किंविशिष्टम् ।। 'अञ्जनभासमानमहसम्' अञ्जनं-कज्जलं तस्य भा-कान्तिः तया समान--सदृशं महःतेजो यस्य स ते, श्यामशरीरत्वात् । यत्तदानित्याभिसम्बन्धादू या नामः यदूनां-यादवानां राजी-पाई. अतीतापदं चके-चकार । 'इकुजू करणे' धातुः। 'चके' इति क्रियापदम् । कः कर्ता नेमिः। कां कर्मतापसाम्राजीम् । केषाम् ? । यदूनाम् । किविशिष्ट राजीम् ? । 'अतीतापदम्। अतीता--अतिकान्ता आपद्विपत्तिर्यस्याः सा ताम् । पुनः किंविशिष्टाम् । दक्षा-चतुराम् । च-पुनः यो नेमिः ऊर्जितराजकं-बलवद्राजसमूहं क्षणात-क्षणमात्रेण रणमुखे-सद्ग्राममुखे चिक्षेप-क्षेपयामास । 'क्षिप प्रेरणे' धातुः। 'चिक्षेप' इति क्रियापदम् । कः कर्ता ?। नेमिः । किं कर्मतापन्नम् ? ।'ऊर्जितराजकम् । राज्ञां समूहो राजकं, ऊर्जितं च ता राजकं चेति. पश्चात् 'कर्मधारयः । किंविशिष्टं ऊर्जितराजकम् । लक्षसइन्स्यं लक्षसहस्याकम् । पुनः किंविशिष्टम् ।। अक्षाम-उपचितम् । न क्षामं अक्षामं इति 'नसमासः , प्रचुरस्वसेवकजनोपेतत्वात ॥ इति प्रथमवृत्तार्थः ॥१॥
जिनश्रेण्याः स्तुतिः--
प्राब्राजीजितराजका रज इव ज्यायोऽपि राज्यं जवाद्
या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा___ यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥२॥
-शार्दूल. ज० वि०-पाव्राजीजितेति । सा जिनानां राजी-तीर्थकरश्रेणी न:-अस्माकं भवायासं-संसारखेदं हरतु-दूरीकरोतु इति क्रियाकारकसम्बन्धः । अत्र ' हरतु ' इति क्रियापदम् । फा की ? 'राजी'। केषाम् ? 'जिनानाम् ' । के कर्मतापनम् ? 'भवायासम् ।। केषाम् ? 'न। सेति तच्छब्दसाहचर्याद् यच्छब्दयोजनामाह-या जिनानां राजी प्रावाजी-प्रव्रज्यामग्रहीत् । अत्रापि 'मावाजीत' इति क्रियापदम् । का की ? 'या'। किं कृत्वा ? 'विहाय । त्यक्त्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org