________________
२४६
स्तुतिचतुर्विंशतिका
[ २२ श्रीनेमि
"
किं कर्मतापत्रम् ? ' राज्य ' राजव्यापारम् । कस्माम् ?' जवात् ' वेगात् । किमिव ? ' रज इव रेणुमिव । राज्यं कथभूतम् ? ' ज्यायोऽपेि ' महदपि । पुनः कथं ? ' उदितं ' माप्तोदयम् । या कथंभूता ? ' जितराजका ' जितं वशीकृतं राजकं - राजसमूहो यया सा तथा । पुनः कथं० १ 'हिता' श्रेयस्करी । कस्मिन्नपि १ 'संसारमहोदधावपि भवमहार्णवेऽपि । पुनः कथं ० १ ' शास्त्री ' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनीत्यर्थः । पुनर्यच्छन्द योजनामाह- -यस्याः - :- जिनानां राज्याः सारमह: - प्रधानतेजः सर्वत एव समन्तादेव दधाव वेगात् प्रससारेति क्रियाकारकयोगः । अत्र 'दधाव ' इति क्रियापदम् । किं कर्तृ ? ' सारमहः । कस्याः ?' यस्याः ' । कथम् ? 'सर्वत एव' । सारमहः कथंभूतम् ? 'पिहिताशास्त्रीविहाय: ' आशास्त्रियो- दिङ्नार्यः विहायः - गगनं एतानि पिहितानि - स्थगितानि येन तत् तथा । पुनः कथं० १' अदितं ' अखण्डितम् ।।
अथ समासः -- जितं राजकं यया सा जित० ' बहुव्रीहिः ' । महांवासौ उदधिव महोदधिः 'कर्मधारयः ' महोदधिरिव महोदधिः । संसारवासी महोदधिव संसारमहो० ' कर्मधाग्यः ' । तस्मिन् संसार० । भवस्यायासो भवायासः ' तत्पुरुषः ' । तं भवायासम् । सारव तन्महश्व सारमहः ' कर्मधारयः । स्त्रिय इव स्त्रियः । आशाश्च ताः स्त्रियश्च आशास्त्रियः ' कर्मधारयः ' । आशास्त्रियश्व विहायच आशास्त्रीविहायः ' इतरेतरद्वन्द्व : ' । विहितानि आशा स्त्रीविहायसि येन तत् पिहिता० ' बहुव्रीहि: ' । न दितं अदितं ' तत्पुरुषः इति काव्यार्थः ॥ २ ॥
1
सि० वृ० - प्रात्राजीज्जितेति । सा जिनाना - वीर्यकृता राजी-सतिः - श्रेणी नः - अस्माकं भवायासंसंसारखेदं हरतु - दूरीकरोतु इत्यर्थः । ' हृन् हरणे ' धातोः ' आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'अप्०' (सा० सू० ६९१ ) । ' गुणः ' ( सा० सू० ६९२ ) इति गुणः । ' स्त्ररहीनं ० ' ( सा० सू० ३६.) । अत्र 'हरतु' इति क्रियापदम् । का कर्त्री ? । राजी । केषाम् ? | जिनानाम् । कं कर्मतापन्नम् ? । 'भवायासं' मवस्य आयासो भवायासस्तम् । केषाम् ! | नः । सेति तच्छन्दसाहचर्याद् यच्छब्दयोजनामाह । या जिनानां राजी प्रात्राजीत् - प्रव्रज्यामग्रहीत् । प्रपूर्वक ' ब्रज गतौ क्षेपणे च' धातोः कर्तरि मूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिवादावट्' (सा० सू० ७०७) । 'भूते सिः' (सा० सू० ७२४ ) । ' सिसतासीस्यपामिट् ' ( सा० सू० ७२० ) इति सेरिडागमः । सेरिति दिपः ईडागमः । 'इट ईटि (सा० सू०७३७ ) इति सेर्लेपः । 'सवर्णे दीर्घः' (सा० सू० १२ ) । ' णित्पे ' (सा० सू० ७१९ ) इति परस्मैपदे णित्वे । ' अत उपधायाः ' (सा० सू० ७१७ ) इति वृद्धिः । ' स्वरही नं ० ' ( सा० सू० ३६ ) । तथा च ' प्रात्राजीत्' इति सिद्धम् । अत्र ' प्रात्राजीत ' इति क्रियापदम् । का कर्त्री । या । किं कृत्वा ! | संत्यज्य - त्यक्त्वा । किम् । राज्यं - साम्राज्यं, राज्यव्यापारमितियावत् । ' राजश्वशुरायत् ' ( पा० अ० ४, पा० १, सू० १३७ ) इति यत् । कस्मात् : ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org