Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 445
________________ २५० स्तुतिचतविशतिका [२२ श्रीनमियस्याः सा अदरिद्रो० 'बहुव्रीहिः।।न क्षोभ्या अक्षोभ्या ' तत्पुरुषः।। जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः । तत्सम्बो० हे जिन । प्रकर्षेणोन्मादिनः प्रोन्मादिनः 'तत्पुरुषः । तेषां प्रोन्मा० । मानस्य त्याजनं मान० 'तत्पुरुषः । मानत्याजनं करोतीति मान ' तत्पुरुषः । तमो हरतीति तमोहरा तत्पुरुषः'। अतिशयेन तमोहरा तमो० । अरीणां द्रोहिका अरि० ' तत्पुरुषः' । इति काव्यार्थः ॥ ३ ॥ सि. वृ०-कर्वाणेति । हे जिनपते ! हे जिननायक ! तव-मवतः मारती-वाणी मे-मम अरिद्रोहिका-अरीणां द्रोहकारिणी स्वात्-मवतु इत्यर्थः । अस् भुवि ' धातोः ' आशीःप्रेरणयोः । (सा० सू० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषकवचनम् । अत्र ‘स्तात् ' इति क्रियापदम् । का की ! । मारती । विभीति भारती पृषोदरादिः । कस्य । तव । कथंभूता ! । अरिद्रोहिका । कस्य । मे-मम । न चायं मेशब्दः युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदादरे कथं प्रयुक्तः! [यदुक्तम् ] "सम्बोधनादादग्रे न भवन्ति वसादयः" (सा०स० ३४४) इत्याशङ्कनीयम् । मे इत्यस्य षष्ठयन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशाभावादिति । मारती किं कुर्वाणा ! । 'कुर्वाणा' कुरुत इति कुर्वाणा-विदधाना । काम् ।। त्रपां-लज्जाम् । कस्याः । 'मास्वत्प्रभायाः' मास्वान्-सूर्यः तस्य प्रमा-प्रकाशः तस्याः । कस्मात् ? । 'अणुपदार्थदर्शनवशात्! अणवःसूक्ष्मा ये पदार्थाः-निगोदजीवपरमाण्वादयः तेषां दर्शनं व्यक्तीकरणं तस्माद् । भारती सक्ष्मानपि पदार्यान् दर्शयति, न त्वहं तदर्शने समर्थेति तया जिताऽस्मीत्येवंशीलां मास्वत्प्रमायास्त्रपां करोतीति मावः । मारती कयंम्ता ! । शस्ता-प्रशस्ता । पुनः कथंभूता ? ।' अदरिद्रोहिका ' अदरिद्रा-अतुच्छा उहा यस्यां सा । स्वाथै कन् । पुनः कथंभूता ! । ' अक्षोम्या' न क्षोमयितुं-चालयितुं शक्या--अक्षोम्या । पुनः कथंभूता । ' मानत्याननकृत्' मान:-अभिमानः तस्य त्याजनं-मोक्षणं करोतीति तथा। 'विप्' (सा० स० १२४९)। 'हस्वस्य पिति कृति०' (सा० स० १२४६) इति तुक् । केषाम् ? । वादिनां-परतीथिकानाम् । कथंभूतानां वादिनाम् । 'प्रोन्मादिनां' प्रकर्षण उन्मादः-चित्तविप्लवो येषां ते तथा तेषाम्, प्रकर्षणोन्मादवतामित्यर्थः, दर्यादसमञ्जसचेष्टावतामिति मावः । पुनः कथंभूता मारती ? । ' तमोहरतमा ' अतिशयेन तमःअज्ञानं हरति-नाशयतीति तथा। अतिशयार्थे तमप्। अवशिष्टे च द्वे जिनपतेः सम्बोधने, तयोस्त्वेवं व्याख्याहे जनकृत्तमोहरत । जनानां-लोकानां कृत्ते-छिन्ने मोहरते येन स तथा तस्य सम्बो. हे जन । मोहो-मोहनीयं कर्म रतं-कामकेलिः, मोहश्च रतं च मोहरते इतरेतरद्वन्द्वः' । हे ईश !-स्वामिन् । । कया कृत्वा ! । आनत्या-प्रणामेन ॥ ३॥ __सौ० वृ०-कुर्बाणेति । हे जिनपते! हे जिनराज ! हे ईश!-स्वामिन् ! पुनर्जनाना-लोकाना कृत्ते-छविते मोहः-अज्ञानं रतं-सुरतं येन स जनकृत्तमोहरतः तस्य सं० हे जनकृत्तमोहरत ! तवभवतः भारती-वाणी मे-मम अरिद्रोहिका-शत्रुविनाशिनी स्ताद इत्यन्वयः। 'स्तात्' इति क्रियापदम् । का की। 'भारती'। 'स्तात् ' भवतु । भारती कस्य ।। 'तव'। किंविशिष्टा! 'अरिद्रोहिका' । कस्त? । 'मे' मम । किंविशिष्टा भारती? । 'शस्ता' प्रशस्ता । पुनः किं कुर्वाणा भारती? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562