________________
२५० स्तुतिचतविशतिका
[२२ श्रीनमियस्याः सा अदरिद्रो० 'बहुव्रीहिः।।न क्षोभ्या अक्षोभ्या ' तत्पुरुषः।। जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः । तत्सम्बो० हे जिन । प्रकर्षेणोन्मादिनः प्रोन्मादिनः 'तत्पुरुषः । तेषां प्रोन्मा० । मानस्य त्याजनं मान० 'तत्पुरुषः । मानत्याजनं करोतीति मान ' तत्पुरुषः । तमो हरतीति तमोहरा तत्पुरुषः'। अतिशयेन तमोहरा तमो० । अरीणां द्रोहिका अरि० ' तत्पुरुषः' । इति काव्यार्थः ॥ ३ ॥
सि. वृ०-कर्वाणेति । हे जिनपते ! हे जिननायक ! तव-मवतः मारती-वाणी मे-मम अरिद्रोहिका-अरीणां द्रोहकारिणी स्वात्-मवतु इत्यर्थः । अस् भुवि ' धातोः ' आशीःप्रेरणयोः । (सा० सू० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषकवचनम् । अत्र ‘स्तात् ' इति क्रियापदम् । का की ! । मारती । विभीति भारती पृषोदरादिः । कस्य । तव । कथंभूता ! । अरिद्रोहिका । कस्य । मे-मम । न चायं मेशब्दः युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदादरे कथं प्रयुक्तः! [यदुक्तम् ] "सम्बोधनादादग्रे न भवन्ति वसादयः" (सा०स० ३४४) इत्याशङ्कनीयम् । मे इत्यस्य षष्ठयन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशाभावादिति । मारती किं कुर्वाणा ! । 'कुर्वाणा' कुरुत इति कुर्वाणा-विदधाना । काम् ।। त्रपां-लज्जाम् । कस्याः । 'मास्वत्प्रभायाः' मास्वान्-सूर्यः तस्य प्रमा-प्रकाशः तस्याः । कस्मात् ? । 'अणुपदार्थदर्शनवशात्! अणवःसूक्ष्मा ये पदार्थाः-निगोदजीवपरमाण्वादयः तेषां दर्शनं व्यक्तीकरणं तस्माद् । भारती सक्ष्मानपि पदार्यान् दर्शयति, न त्वहं तदर्शने समर्थेति तया जिताऽस्मीत्येवंशीलां मास्वत्प्रमायास्त्रपां करोतीति मावः । मारती कयंम्ता ! । शस्ता-प्रशस्ता । पुनः कथंभूता ? ।' अदरिद्रोहिका ' अदरिद्रा-अतुच्छा उहा यस्यां सा । स्वाथै कन् । पुनः कथंभूता ! । ' अक्षोम्या' न क्षोमयितुं-चालयितुं शक्या--अक्षोम्या । पुनः कथंभूता । ' मानत्याननकृत्' मान:-अभिमानः तस्य त्याजनं-मोक्षणं करोतीति तथा। 'विप्' (सा० स० १२४९)। 'हस्वस्य पिति कृति०' (सा० स० १२४६) इति तुक् । केषाम् ? । वादिनां-परतीथिकानाम् । कथंभूतानां वादिनाम् । 'प्रोन्मादिनां' प्रकर्षण उन्मादः-चित्तविप्लवो येषां ते तथा तेषाम्, प्रकर्षणोन्मादवतामित्यर्थः, दर्यादसमञ्जसचेष्टावतामिति मावः । पुनः कथंभूता मारती ? । ' तमोहरतमा ' अतिशयेन तमःअज्ञानं हरति-नाशयतीति तथा। अतिशयार्थे तमप्। अवशिष्टे च द्वे जिनपतेः सम्बोधने, तयोस्त्वेवं व्याख्याहे जनकृत्तमोहरत । जनानां-लोकानां कृत्ते-छिन्ने मोहरते येन स तथा तस्य सम्बो. हे जन । मोहो-मोहनीयं कर्म रतं-कामकेलिः, मोहश्च रतं च मोहरते इतरेतरद्वन्द्वः' । हे ईश !-स्वामिन् । । कया कृत्वा ! । आनत्या-प्रणामेन ॥ ३॥ __सौ० वृ०-कुर्बाणेति । हे जिनपते! हे जिनराज ! हे ईश!-स्वामिन् ! पुनर्जनाना-लोकाना कृत्ते-छविते मोहः-अज्ञानं रतं-सुरतं येन स जनकृत्तमोहरतः तस्य सं० हे जनकृत्तमोहरत ! तवभवतः भारती-वाणी मे-मम अरिद्रोहिका-शत्रुविनाशिनी स्ताद इत्यन्वयः। 'स्तात्' इति क्रियापदम् । का की। 'भारती'। 'स्तात् ' भवतु । भारती कस्य ।। 'तव'। किंविशिष्टा! 'अरिद्रोहिका' । कस्त? । 'मे' मम । किंविशिष्टा भारती? । 'शस्ता' प्रशस्ता । पुनः किं कुर्वाणा भारती?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org