________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
२४९ जिनवाणीगौरवम्
कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा___ मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ३ ॥
-~-शार्दूल. ज० वि०-कुर्वाणेति । हे जिनपते !-जिनराज ! तव-भवतः भारती-वाक् मे-मम अरिद्रोहिका-अरीणां द्रोहकारिणी स्तात्-भवतु इति क्रियाकारकान्वयः । अत्र 'स्तात् । इति क्रियापदम् । का की ? 'भारती' । कस्य ? 'तव' । कयंभूता ? 'अरिद्रोहिका । कस्य ? '
मेन चायं मेशब्दोऽस्मच्छब्दविशेषादेशत्वात् सम्बोधनपदाग्रे कथं प्रयुक्तः । यदुक्तम् “सम्बोधनपदादग्रे न भवन्ति वसादयः" (सा० मू० ३४५ ) इत्याशनीयम् । मेइत्यस्य षष्ठयन्तप्रतिरूपाव्ययत्वात निपातत्वेन अस्मच्छब्दविशेषादेशत्वाभावादिति । भारती किं कुर्वाणा? 'कुर्वाणा' विदधाना । कां कर्मतापनाम् ? 'त्रपा' लज्जाम् । कस्याः ? ' भास्वत्पभायाः।। कस्मात् ? ' अणुपदार्थदर्शनवशात् । अणवः-मूक्ष्माः ये पदार्था:-परमाण्वादयः तेषां यद् दर्शनं-व्यक्तीकरणं तद्वशात्तदायत्तभावत्वात् । इयं अणूनपि पदार्थान् दर्शयति, न त्हम् अतोऽहं जिताऽस्मीत्येवंरूपां भास्वत्मभायास्त्रपां करोतीति हार्दम् । भारती कथंभूता ? 'शस्ता' प्रशस्ता । पुनः कथं ? 'अदरिद्रोहिका' अदरिद्रा-अतुच्छा ऊहा यस्याः सा तथा । अत्र स्वार्थे कन् । पुनः कथं० ? ' अक्षोभ्या' अचालनीया । पुनः कथं० १ 'मानत्याजनकृत् ' अभिमानमोक्षणकारिणी । केषाम् ? वादिनां' परतीर्थिकानाम्। वादिनां कथम्भूतानाम्? प्रोन्मादिनां' प्रकर्षणोन्मादवताम्, दर्पादसमञ्जसचेष्टानामित्यर्थः । पुनः कथंभूता भारती ? 'तमोहरतमा' अतिशयेन तमोहरा-अज्ञानविनाशिनी । अवशिष्टे च द्वे जिनफ्तेः सम्बोधने, तद्याख्या यथा-हे 'जनकृत्तमोहरत!' मोह:मोहनीयं कर्म रतं-कामकेलिः, ततः जनानां लोकानां कृत्ते-छिन्ने-सर्वथा निरस्ते मोहरते येन स तथा तत्सम्बोधनं हे जन । कया हेतुभूतया ? ' आनत्या' प्रणामेन । हे 'ईश ! " स्वामिन् ! ॥ __अथ समासः-अणवश्च ते पदार्थाश्च अणुपदार्थाः ‘कर्मधारयः । अणुपदार्थानां दर्शनं अणु० 'तत्पुरुषः । अणुपदार्यदर्शनस्य वशः अणु० 'तत्पुरुषः । तस्मादणु० । भास्वतः प्रभा भास्वत्मभा 'तत्पुरुषः' । तस्याः भास्वत्पभायाः । मोहश्च रतं च मोहरते ' इतरेतरद्वन्दुः । कृत्ते मोहरते येन स कृत्त. 'बहुव्रीहिः । जनानां कृत्तमोहरतः जनकृत्त. 'तत्पुरुषः' । तत्सम्बो० हे जनकृत्त । न दरिद्रा अदरिद्राः 'तत्पुरुषः' । अदरिद्रा ऊहा
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org