________________
૨૪૯
स्तुतिचतुविंशतिका
[ २१ श्रीनेमि
"
योऽपि' महदपि । किं विशिष्टा राजी ? । जितं पराजितं राजकं - राजसमूहो यया सा 'जितराजका' । पुनः किंविशिष्टा राजी ? । 'हिता' हितकारिणी । कस्मिन् ।' संसारमहोदधौ अपि संसारसमुद्रेऽपि । पुनः किंविशिष्टा जिन्नानां राजी ? | 'शास्त्री' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनत्यिर्थः । पुनः किंविशिष्टा राजी ? । पुनर्यच्छब्दमपेक्षते । यस्याः राज्याः सारमहः - प्रधानं तेजः सर्वत एव - सर्वस्मिअपि जगति दधाव इत्यन्वयः । 'धाव' इति क्रियापदम् । किं कर्तृ । ' सारमहः ' । ' दधाव ' । प्रससार । कस्याः ? । ' यस्याः ' । कथम् ? । ' सर्वत एव ' सर्वत्र । किंविशिष्टं सारमह : ? । पिहितानि - स्थगितानि आशा-दिशः स्त्रियो-योषितः विहायः - आकाशं येन तत् 'पिहिताशास्त्रीविहायः । पुनः विशिष्टं सारमहः । ' अदितं ' अखण्डितं, परिपूर्णमित्यर्थः । इति पदार्थः ।
·
"
अथ समासः - राज्ञां समूहो राजक, जितं राजकं यया सा जितराजका । अतिशयेन वृद्धं ज्यायः, तत् ज्यायः । राज्ञो भावो राज्यं, तद् राज्यम् । संसरणं संसारः, उदकानि धीयन्ते स्थाप्यन्ते अस्मिन् इति उदधिः, महांश्चासौ उदधिश्व महोदधिः, संसार एव महोदधिः संसारमहोदधिः, तस्मिन् संसारमहोदधौ। शास्ति-शिक्षयतीति शास्त्री । भवस्य आयासः भवायासः, तं भवायासम् । सारं च तन्महश्च सारमहः । आशाश्च स्त्रियश्च विहायश्च आशास्त्रीविहायांसि, पिहितानि आशास्त्रीविहायांसि येन तत् पिहिताशास्त्रीविहायः । न दितं अदितम्। पक्षे उदितं उदयप्राप्तं राज्यमित्यर्थः । इति द्वितीयवृत्तार्थः ॥ २ ॥
(2
दे० व्या०-- प्रात्राजज्जितेति । सा जिनानां राजी - तातेः नः अस्माकं भवायासं-संसारपरिभ्रमं हरतु - नाशयतु इत्यन्वयः । ' हृञ् हरणे' धातुः । ' हरतु' इति क्रिया पद्म । का कर्त्री ? । राजी । केषाम् ? । जिनानाम् । कं कर्मतापन्नम् ? । भवायासम् । भवस्य आयासं भवायासं इति ( ' तत्पुरुष ' ) समासः । केषाम् ? | नः । किंविशिष्टा जिनानां राजी ? । 'जितराजका ' जितं भग्नं राजकं - राज्ञां समूहो यया सा तथा । 'स्याद् राजपुत्रकं राजन्यकं राजकमाजकं " इत्यभिधानचिन्तामणिः ( का० ६, श्लो० ५३ ) । पुनः किंविशिष्टा ? | हिता-हितकारिणी । कस्मिन् ? । 'संसारमहोदधौ' संसरणं संसारः भावे घञ् स एव महानप्रकृष्टो यः उदधिः- समुद्रः तस्मिन् । पुमः किंविशिष्टा ? । शास्त्री - शिक्षयित्री, द्विसप्ततिकलायाः पूर्वं भगबतैव शिक्षणात् । यत्तदोर्नित्याभिसम्बन्धादू या जिनानां राजी जवात् शीघ्रं मात्राजीत् प्रवन्धामग्रहीत् । ' प्राव्राजीत् ' इति क्रियापदम् । का कर्त्री ? | जिनानी राजी। किं कृत्वा ? । विहाय - सन्त्यज्य । किम् ? । राज्यं - साम्राज्यम् । कथम् ? । जवात- अविलम्बेन यथा स्यात् तथेति क्रियाविशेषणम् । किमिव ? । रज इव । यथा रजस्त्यागे विलम्बो न भवति तथा अविलम्बेन राज्यं त्यक्तमित्यभिप्रायः । च पुन: यस्या:- जिन८ ' सारं प्रधानं महः - तेजः सर्वतः - समन्तात् दधाव - प्रससारेत्यन्वयः । राज्याः इति क्रियापदम् । किं कर्तृ? | 'सारमह:' सारं प्रधानं महः - तेजः । कथम् ? | सर्वतः । किं विशिष्टं सारमहः ? | ' पिहिताशास्त्रीविहायः आशास्त्री - दिग्वनिता विहायः- आकाशं अनयोः 'द्वन्द्वः, ततः पिहितेआच्छादिते आशास्त्रीविहायसी येनेति । अदितं अखण्डितम् । न दितं अदितमिति नञ्समासः । पुनः किं विशिष्टम् ? । उदितं - उदयं प्राप्तम् । किं विशिष्टं राज्यम् ? | ज्यायोऽपि प्रशस्यमपि श्लाघनीयमपि । पुनः किंविशिष्टम् । उदितं गतार्थमेतत् ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
"
सारमहः
दधाव
Jain Education International
,
For Private & Personal Use Only
>
www.jainelibrary.org