________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
२५१ 'कुर्वाणा' विदधाना । कां कर्मतापन्नाम् ? । 'पा' लज्जाम् । कस्याः? । मास्वान्-सूर्यः तस्य प्रभा-कान्तिः तस्याः 'भास्वत्पभायाः', सूर्यकान्तेरपि लज्जा कुवेतीत्यर्थः। कस्मात् । अणु:-परमाणुः स एव पदार्थः द्रव्यरूपतया (तस्य) दर्शनं-अवलोकनं तस्य वशः-स्वायत्तीकरणं ज्ञानेन तस्मात् 'अणुपदार्थदर्शनवशात्' तद्वशात्-तदायत्तभावत्वात् । इयमणुपदार्थान् दर्शयति न तु अहं, अतोऽहं जिताऽस्मि इत्येवंरूपां भास्वत्प्रभायास्त्रपां करोतीति हार्दम् । पुनः किंविशिष्टा भारती?। तमः-अज्ञानं तत् प्रति हरतीति तमोहरा, अतिशयेन तमोहरा इति 'तमोहरतमा' । पुनः किं विशिष्टा भारती? । अदरिद्रा:-सम्पूर्णा ऊहा-वितर्का यस्यां सा 'अदरिद्रोहिका'। स्वार्थ कन् । पुनः किविशिष्टा भारती? मानो-दर्पः अहंकारो वा तस्य त्याजनं-त्यागः तत् करोतीति ‘मानत्याजनकृत् । कया? । 'आनत्या' प्रणतिभावेन । पुनः किंविशिष्टा भारती ? । 'अक्षोभ्या' न क्षोभयितुं शक्या। केषाम् ? । 'वादिनां' कुतीथिकानाम्। किंविशिष्टानां वादिनाम् ? । 'प्रोन्मादिनां' प्रकर्षेण यथा तथा जल्पनशीलानाम् । अत्र मे इति युष्मच्छब्दस्य विशेषादेशरूपं संबोधनपदादने बद्धं तन्न भवति “संबोधनपदादो न भवन्ति वसादयः " (सा०सू० ३४५) इति वचनात् कथं घटते तदाह-मे इत्यस्य षष्ठचन्तप्रतिरूपाव्ययत्वात् अस्मच्छब्दस्य विशेषार्थत्वाग्निपातत्वेन विशेषादेशाभावात् इति न वसादयः । इति पदार्थः॥
अथ समासः-कुरुते इति कुर्वाणा । अणवश्च ते पदार्थाश्च अणुपदार्थाः, अणुपदार्थानां दर्शनं अणुपदार्थदर्शनं, अणुपदार्थदर्शनस्य वशः-आयत्तः अणुपदार्थदर्शनवशः, तस्मात् अणुपदार्थदर्शनवशात् । भाः-कान्तिः विद्यते यस्यासी भास्वान्, भास्वतःप्रभा भास्वत्प्रमा, तस्याः भास्वत्पभायाः।मोहश्च रतं च मोहरते, जनानां कृते मोहरते येन स जनकृत्तमोहरतः, तस्य सं० हे जनकृत्तमोहरत!। न दरिद्रा अदारिद्राः, अदरिद्रा ऊहा यस्यां सा अदारिद्रोहिका । क्षोभयितुं योग्या क्षोभ्या, न क्षोभ्या अक्षोभ्या। जिनानां पतिः जिनपतिः, तस्य सं० हे जिनपते । । प्रकृष्ट उन्मादो येषां ते प्रोन्मादिनः, तेषां प्रोन्मादिनाम् । वदनं वादः, वादः अस्ति ए(ये)षां इति वादिनः, तेषां वादिनाम् ।मानस्य त्याजनं मानत्याजनं,मानत्याजनं करोतीति मानत्याजनकृत् । तमांसि हरतीति तमोहरा, अतिशयेन तमोहरा (तमोहरतमा)। अरीणां द्रोहः अरिद्रोहः, तं अरिद्रोहं करोतीति अरिद्रोहकारिका ॥ इति तृतीयपदार्थः ॥ ३ ॥
दे० व्या०-कुर्वाणति । हे जिनपते ! मतार्थम् । हे ईश!-स्वामिन् ! ते-तब भारती मे-मम अरिद्रोहिका-शत्रुक्षयकारिणी स्तात् इत्यन्वयः। 'स्तात् ' इति क्रियापदम् । का की। भारती-वाणी । “वाग् ब्राह्मी भारती गौर्गीः" इत्यभिधानचिन्तामणिः (का०२, श्लो० १५५)। कस्य । ते-तव । किंविशिष्टा भारती। अरिद्रोहिका । कस्य । मे-मम । पुनः किंविशिष्टा। शस्ता-प्रशस्ता, आविसंवादित्वात् । पुनः किंविशिष्टा?। 'अदरिद्रोहिका' न सन्ति दरिद्रा-अर्थशून्या ऊहा:-तर्का यस्याः सा तथा। पुनः किंविशिष्टा। अक्षोभ्या-अचालनीया। न क्षोभ्या अक्षोभ्या इति समासः। पुनः किंविशिष्टा ?। 'मानत्याजनकुत्' मानस्यअहाइ कारस्य त्याजनं करोतीति तथा । 'क्विप् च'(पा०अ०३. पा०२, सू०७६), 'हस्वस्य पिति कृति तुक' (पा०अ० ६. पा० १, सु०७१)। केषाम् ? । बादिनां-परेतीथिकानाम्। किंविशिष्टानां वादिनाम् ? 'प्रोन्मादिनां' प्रकर्षेण उन्माद:-चित्तविप्लवो येषां ते तथा । " उन्मादश्चित्तविप्लवः" इत्यभिधानचिन्तामणिः (का. २, श्लो० २३४) । पुनः किंविशिष्टा ? । 'तमोहरतमा' तमः-अज्ञानं हरतीति तमोहरा, अतिशयेन तमोहरा तमोहरतमा। अतिशयेऽर्थे तमपूप्रत्ययः। किं कुर्वाणा भारती?। कुर्वाणा। काम् त्रिपां-लज्जाम् । कस्याः?। 'भास्वत्प्रभायाः' भास्वतः-सूर्यस्य प्रभा-कान्तिः तस्याः।(कस्मात् !)'अणुपदार्थदर्शनवशात् । अणवः-अत्यन्तं सुक्ष्माः चक्षुरग्राह्या इतियावत् ते च ते पदार्थाः-जीवादिनवपदार्थाः तेषां यद् दर्शनं-व्यक्तीकरणं तस्मात. हेत्वर्थ पञ्चमी । “प्रमितिविषयाः पदार्थाः' इति वैशेषिकादयः । 'परस्पराविनिल ठितक्षणक्षयिलक्षण
'अरिद्रोहिका ' इति पदं मूलकाव्ये, तस्मादयं विग्रहो भ्रान्तिमूलकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org