________________
२५२
स्तुतिचतुर्विशतिका
[२५ श्रीनोमि
निरंशाः परमाणवः पदार्थाः । इति बौद्धाः । 'जनकृत्तमोहरत !' इति । मोहश्च रतं चेति पूर्व 'इन्द्रः', ततः जनानां -भव्यप्राणिनां कृते -छिन्ने मोहरते - अज्ञानसुरते येन इति तृतीयाबहुव्रीहिः' तस्यामन्त्रणं । भगवतः ननु अपुरुषार्थोऽयम् । सुखस्यापि हानेरिति चेन्न, बह्तदःखानुदि
गोऽयम् । सुखस्यापि हानेरिति चेन्न, बहुतदुःखानुविद्धतया सुखस्यापि दुःखवद्धेयत्वात्, मधुवि पसंसक्तानभोजनजन्यसुखवत् । यद्वा कृत्तं मोहरत-अज्ञानस्य सुखं येनेति विवक्षणे न कोऽपि दोषः। कया। आनन्या-प्रणामेन । इति तृतीयवृत्तार्थः ॥३॥
अम्बादेव्याः स्तुतिः
हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥४॥२२॥
-शार्दूल. ज० वि०-इस्तेति । सा अम्बा-अम्बिका देवी, अत्रापि बवयोरैक्यं यमकवञ्चादेव, न:-अस्माकं भूति-सम्पत्ति वितनोतु-विस्तारयतु इति क्रियाकारकयोगः। अत्र 'वितनोतु' इति क्रियापदम् । का की? 'अम्बा' । कां कर्मतापन्नाम् ? 'भूतिम्' । केषाम् ? 'नः' । अम्बा कथंभूता ? 'हस्तालम्बितचतलुम्बिलतिका' हस्ताग्रे आलम्बिता-अवलम्बिता-लोलायमाना चूतस्य-आम्रदुमस्य लुम्बिरूपा लतिका यस्याः सा तथा । पुनः कथं० १ 'रिपुत्रासकृत् ' वैरिणां त्रासकारिणी । कया ? 'वाचा' गिरा, हकारवेणेत्यर्थः । पुनः कयं० १ 'अर्जुनरुचिः। चामीकरच्छविः। पुनः कथं० १ 'अधिरूढा ' आसीना । कस्मिन् ? 'सिंह' केसरिणि । कथंभूते केसरिणि (सिंहे) १ 'उल्लसद्विश्वासे' उल्लसन् विश्वासो-विश्रम्भो यस्य स तथा तस्मिन्। पुनः कथंभूता अम्बा? 'वितताम्रपादपरता' विततः-विस्तीर्णः य आम्रपादप:-चूतक्षः तत्र रता-आसक्तचित्ता । पुनः कथं० १ 'चारिपुत्रा' चारिणी-विहरणशीलौ पुत्रौ यस्याः सा तथा । सेति तच्छब्दसम्बदत्वाद यच्छन्दघटनामाह-यस्याः अम्बायाः जन:-लोकः 'विश्वासेवितताम्रपादपरता" विधेन-जगता सेविता-आराधितौ ताम्रौ-रक्तौ ईदृशौ यो पादौ-चरणौ तयोः परता-तदेकशरणता अभ्यागमत्-जगाम । अत्रापि 'अभ्यागमत्' इति क्रियापदम् । कः कर्ता ९ जनः।। का कर्मतापभाम् ? 'विश्वासेवितताम्रपादपरताम् ' । कथम् ? ' असकृत् । अनारतम् ॥
अथ समास:-हस्ते आलम्बिता हस्तानम्बिता 'तत्पुरुषाचूतस्य लुम्बिा चूत०'तत्पुरुष छतिकेव लतिका।चूतलुम्बिश्चासौ लतिका च चूत० 'कर्मधारय । हस्तालम्बिता चूतलुम्बिलतिका
१' लम्बि०' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org