________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
સર
O
"
यस्याः सा हस्ता० ‘बहुव्रीहिः” । विश्वेनासेवितौ विश्वासेवितौ 'तत्पुरुषः' । ताम्रौ च तौ पादौ च ताम्रपादौ ' कर्मधारयः' । विश्वासेवितौ च तौ ताम्रपादौ च विश्वासे० 'कर्मधारयः' । विश्वासेवितताम्रपादयोः परता विश्वासेवित ० ' तत्पुरुषः ' । तां विश्वासेवित । त्रासं करोतीति श्रासकृत् 'तत्पुरुषः ' । रिपूणां त्रासकृत् रिपुत्रा ० ' तत्पुरुषः ' । अर्जुनस्येव रुचिर्यस्याः सा अर्जुन ० ' बहुव्रीहि:' । उल्लसन् विश्वासो यस्य स उल्लसद्विश्वास: ' बहुव्रीहिः ' । तस्मिन् उल्लस० । आम्रश्वासौ पादपश्च आम्रपादपः ' कर्मधारयः ' । विततश्चासौ आम्रपादपश्च वितता० ' कर्मधारयः' । वितताम्रपादपे रता वितता० ' तत्पुरुषः ' । चारिणौ पुत्रौ यस्याः सा चारिपुत्रा 'बहुव्रीहिः ' । इति काव्यार्थः ॥ ४ ॥
॥ इति श्रीशोभन स्तुतिवृत्तौ श्री नेमिजिनेन्द्रस्य स्तुतेर्व्याख्या ||
6
1
सि० वृ०—हस्तेति । सा अम्बा - अम्बिकादेवी, अत्रापि बवयोरैक्यं यमकक्शादेव, नः - अस्माकं भूर्ति - सम्पदं वितनोतु - विस्तारयत्विस्यर्थः । विपूर्वक तनु विस्तारे ' धातोः ' आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) लोटि कर्तरि परस्मैपदे प्रथम पुरुषैकवचनम् । अत्र ' वितनोतु' इति क्रियापदम् । का कर्त्री ! | अम्बा । कां कर्मतापन्नाम् ? । मूतिम् ।“ भूतिर्भस्मनि सम्पदि ” इत्यमरः ( लो० २४७३ ) । केषाम् ? । नः । कथंभूता अम्बा ! । ' हस्तालम्बितचूत लुम्बिलतिका' हस्ताग्रे आलम्बिता - अवलम्बिता - लोलायमाना स्थिता चूतस्य - आम्रस्य लुम्बिरूपा लतिका - शाखा यया सा तथा । " शिखाशाखालताः समाः" इति हैम : (का० ४, श्लो० १८५) । पुनः कथंभूता । 'रिपुत्रासकृत् ' रिपूर्णा- वैरिणां त्रासं - मयं आकस्मिकमयं वा करोतीति रिपुत्रासकृत्। कया ! | वाचा-गिरा, हक्कारवेणेत्यर्थः । पुनः कथंभूता ? | 'अर्जुनरुचिः' अर्जुनस्येव सुवर्णस्येव रुचि : - दीप्ति: यस्याः सा तथा । तपनीयचामीकरचन्द्रभर्मार्जुननिष्क कार्तस्वरकर्बुराणि इति हैमः ( का० ४, श्लो० ११० ) । पुनः कथंभूता ? । अधिरूढा - आसीना । कस्मिन् ? । सिंहेकेसरिणि । कथंभूते सिंहे ? । ' उल्लमद्विश्वासे ' उल्लसन्-उल्लासं प्राप्नुवन् विश्वासो - विस्रम्भो यस्य स तथा तस्मिन् । पुनः कथंभूता अम्बा ! । ' वितताम्रपादपरता ' विततो- विस्तीर्णो यः आम्रपादपः- चतवृक्षः तत्र रता—आसक्तचित्ता । पुनः कथंभूता ? | 'चारिपुत्रा' चारिणौ - विहरणशीलौ पुत्रौ - सुतौ यस्याः सा तथा । प्राग्मवापेक्षयैतद् विशेषणं, षष्ठांगः - ज्ञाताधर्मकथांगस्तस्मादस्याः पूर्वजन्मवक्तव्यता बोद्धव्यों । यत्तदोर्नित्यसम्बन्धात् यस्याः अम्बायाः जन:- लोक: विश्वासेवितताम्रपादपरतां अभ्यागमत् - जगाम इत्यन्वयः । 'गम्लृ गतौ धातोः कर्तरि भूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिए। 'लित्पुषादेर्ड : ' (सा. सू. ७११) इति संरपवादपक्षे ङः | 'दिबादावद्' (सा. सू. ७०७), 'इ यं स्वरे (सा.सू.३३), 'स्वरहीनं परेण संयोज्यम्' (सा.सू. ३६) तथाच 'अभ्यागमत् इति सिद्धिम् । अत्र 'अभ्यागमत्' इति क्रियापदम् । क कर्ता ? | जनः । कां कर्मतापन्नाम् ? ।
१ भयमुखचिन्तनीयः, मुद्रितषष्ठा तदनुपलब्धेः । २ ' इणिको सिलोपे गा वक्तव्यः' इति सारस्वते ( सू० ८९५) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org