________________
२५४
स्तुतिचतुर्विशतिका
[२९ श्रीमोमि
'विश्वासेवितताम्रपादपरताम्' विश्वेन-जगता आसेवितौ अर्चितौ वा ताम्रौ-रक्तवर्णी पादौ-चरणौ तयाः परतां - तदेकशरणताम् । कथम् ! । असकृत्-निरन्तरम् । शार्दूलविक्रीडितं छन्दः। लक्षणं तु पूर्वमेवोक्तम् ॥ ४ ॥
॥ इति महोपाध्यायश्रीभानु श्रीनेमिनाथजिनस्य स्तुतिवृत्तिरियम् ॥ __ सौ. वृ०-हस्तेति । सा अम्बानाम्नी देवी न:-अस्माकं भूति-लक्ष्मी वितनोतु इत्यन्वयः। 'वितनोतु' इति क्रियापदम् । का की ? । 'अम्बा' । वितनोतु' विस्तारयतु। कां कर्मतापनाम् ? । 'भूतिम्'। केषाम् ? । 'नः' अस्माकम् । किंविशिष्टा अम्बा ? । 'अर्जुनरुचिः' सुवर्णच्छविः । पुनः किंविशिष्टा अम्बा। विततः-विस्तीर्णो य आम्रपादपः-सहकारतरुः तत्र रता-आसक्ता वितताम्रपादपरता', सहकारतरूनिवासिनीत्यर्थः । पुनः किंविशिष्टा अम्बा ?। रिपूणां-वैरिणां त्रासं-अकस्माभयं करोतीति 'रिपुत्रासकृत् 'रिपुभयकारिणीत्यर्थः। कया ?। 'वाचा' हक्कारेण । पुनः किंविशिष्टा अम्बा ? ' हस्ते-करे आलम्बिता-लोलायमाना चूतस्य-सहकारस्य लुम्बिः-प्रलम्बा (?) लतिका यया सा 'हस्तालम्बितचूतलुम्बिलतिका'। पुनः किंविशिष्टा अम्बा ? 'अधिवढा' अध्यारूढा । कस्मिन् ? । 'सिंहे' कण्ठीरवे । किंविशिष्टे सिंहे ? । उलसन-जायद विश्वासः-प्रतीतिलक्षणो यस्य स उल्लसद्विश्वासः तस्मिन् 'उल्लसद्विश्वासे'। पुनः किंविशिष्टा अम्बा ? । 'सा' सा-प्रसिद्धा। तच्छब्दो यच्छब्दमपेक्षते । सा का ? । जनो-लोको यस्याः अम्बाया विश्वं-जगत् तेन आसेवितौ-आराधितौ ताम्रौरक्तौ पादौ-चरणौ तयोः परतां-तत्परतां विश्वासेवितताम्रपादपरतां' अभ्यागमत् इत्यन्वयः । 'अभ्यागमत् ' इति क्रियापदम् । कः कर्ता ? । 'जनः' । 'अभ्यागमत् ' प्रापत् । कां कर्मतापन्नाम् ? । 'विश्वासेवितताम्रपादपरता जगदाराधितताम्रचरणसंगतिम् । कथम्। ? । 'असकृत्' नित्यशः। कस्याः?। 'यस्याः । देव्याः। पुनः किंविशिष्टा अम्बा ? । चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा 'चारिपुत्रा', बवयोरैक्यं यमकत्वात् । एतादृशी अम्बा नः-अस्माकं भूतिं वितनोतु । इति पदार्थः ॥
अथ समासः-चूतस्य लुम्बिः चूतलुम्बिः चूतलुम्बिः एव लतिका चूतलुम्बिलतिका, हस्ते आलम्बिता हस्तालम्बिता, हस्तालम्बिता चूतलुम्बिलतिका यया सा हस्तालम्बितचूतलुम्बिलतिका। विश्वेन आसेवितौ विश्वासेवितो, ताम्रौ च तौ पादौ च ताम्रपादौ, विश्वासेवितौ च तो ताम्रपादौ च विश्वासेवितताम्रपादौ, परस्य भावः परता, विश्वासवितताम्रपादयोः परता विश्वासेवितताम्रपादपरता. तो विश्वासेवितताम्रपादपरताम् । चारिणौ पुत्रौ यस्याः सा चारिपुत्रा । न सकृत् असकृत् । अर्जुनवद् रुचिर्यस्या असौ अर्जुनरुचिः। हिनस्तीति सिंहः; वर्णविपर्यये, तस्मिन् सिंहे । उलसंश्चासौ विश्वासश्च उल्लसद्विश्वासः, तस्मिन् उल्लसद्विश्वासे, यद्वा उल्लसन् विश्वासो यस्य स उल्लसद्विश्वासः तस्मिन् । आम्रश्चासौ पादपश्च आम्रपादपः, विततश्चासौ आम्रपादपश्च वितताम्रपादपः, वितताम्रपादपे रता वितताम्रपादपरता । रिपूणां त्रासो रिपुत्रासः, रिपुत्रासं करोतीति रिपुत्रासकृत् ॥ इति चतुर्थवृत्तार्थः ॥ ४॥
श्रीमनेमिजिनेन्द्रस्य, स्तुतेरो लिवीकृतः।
सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति श्रीद्वाविंशति(तम)श्रीनेमिनाथस्य स्तुतेाख्यानम् ॥ ४ । २९ । ८८॥ दे. ज्या-हस्तेति।सा अम्बिका देवी न:-अस्माकं भूति-ऋद्धिं वितनोतु-विस्तारयतु इति सम्बन्धः। 'तनु विस्तारे' धातः। वितनोतु' इति क्रियापदम्। का की ? । अम्बिका । कां कर्मतापनाम् । भूतिम् ? । “ऋद्धिः विभतिः सम्पत्तिः" इत्यभिधानचिन्तामणिः (का. ३, श्लो. २१)। केषाम् । नः । किंविशिष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org