________________
जिनस्तुतयः] स्तुतिचतुविशतिका
२५५ अम्बिका ? । 'अर्जुनरुचिः । अर्जुनः(न?)-सुवर्णं तद् रुचिः-कान्तिः यस्याः सा तथा । पुनः किंविशिष्टा। अधिरूढा-आरूढा। कस्मिन् ? । सिंहे-हर्यक्षे। किंविशिष्टे सिंहे ! । 'उल्लसद्विश्वासे' उल्लसन्-उल्लासं प्राप्नुवन विश्वासो यस्मिन् स तस्मिन् । पुनः किंविशिष्टा ? । 'वितताम्रपादपरता' विततो-विस्तीर्णो य आम्रपादप:सहकारवृक्षः तस्मिन् रता-आसक्ता, दत्तचित्ता इतियावत् । पुनः किंविशिष्टा ? । 'चारिपुत्रा' चारिणीगमनशीलौ पुत्रौ-अङ्गजौ यस्याः सा तथा । पूर्वभवापेक्षयैतद् विशेषणम् । पुनः किंविशिष्टा । 'रिपुत्रासकृत् ' रिपूणां त्रासं करोतीति तथा । "बासस्त्वाकस्मिकं भयं" इत्यभिधानचिन्तामणिः (का०२, श्लो०२३५) कया? 'वाचा' शापेन वचनव्यापारेण वा । पुनः किंविशिष्टा ? । 'हस्तालम्धितचूतलुम्बिलतिका' हस्ते-करे आलम्बिता-गृहीता चूतस्य-आम्रस्य (लुम्बिरूपा) लतिका-शाखा यया सा तथा । "शिखाशाखालताः समाः" इत्यभिधानचिन्तामणिः (का०४, श्लो० १८५)। यत्तदोर्नित्याभिसम्बन्धादू यस्याः अम्बिकाया जनः-लोकः असकृत्-- निरन्तरं विश्वासेवितताम्रपादपरतां अभ्यागमत्-आययौ। 'अभ्यागमत्' इति क्रियापदम् । कः कर्ता जनः । का कर्मतापन्नाम् । 'विश्वासेवितताम्रपादपरता' विश्वेन-जगता आ-समन्तात् सेविती-सपर्याविषयीकृती ताम्रपादौ-ताम्रवर्णक्रमी तयोः परतां तदाधीनतामित्यर्थः ॥ इति चतुर्थवृत्तार्थः॥ ४ ॥ शार्दूलविक्रीडितं छन्दः॥ तल्लक्षणं तु प्रागेव प्रदर्शितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org