________________
___ २३ श्रीपार्थजिनस्तुतयः अथ श्रीपार्श्वनाथाय प्रार्थना
मालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा
ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पार्थो । रुचिररुचिरदो देवराजीवराजीपत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ १॥
--स्रग्धरा (७, ७, ७) ज० वि०-मालति । स पार्थः-पार्श्वनामा जिनः, माशब्दोऽस्मच्छब्दस्य द्वितीयकवचनान्तो विशेषादेशसिद्धो मामित्यस्यार्थे वोते, पातात्-नरकादिषु पतनात् पातात-रक्षतात् इति क्रियाकारकयोजनम् । अत्र 'पातात् । इति क्रियापदम् । कः कर्ता ? 'पार्थः' । पार्थः किं कुर्वन् ? 'दधत् । धारयन् । कां कर्मतापन्नाम् ? 'माला' स्रजम् । अत्राग्रे यामिति यच्छब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याहियते । यां माला अलीनां-भ्रमराणां आली-श्रेणी आरात्-अन्तिके लीना--श्लिष्टा सती अदधत्-पीतवती । अत्रापि · अदधत् । इति क्रियापदम् । का की ? ' आली' । केषाम् ? ' अलीनाम् ' । कां कर्मतापन्नाम् ? 'याम्' । कथम् ? 'आरात् ।। कुत्र ? 'इह' अत्र जगति । पुनः कथम्?।' अरं' शीघ्रम् । कया ? 'मुदा' हर्षेण । अलीनामाली कथंभूता ? ' उदारा ' प्रचुरा । पुनः कयंभूता ? 'मधुरमधुरसा' मधुरेसुस्वादे मधुनि-मकरन्दे रसः-तीव्राभिलाषो यस्याः सा तथा । पार्थः कथंभूतः ? 'आलानबाहुः' आलानाविव-गजबन्धनस्तम्भाविव बाहू-भुजौ यस्य स तथा । पुनः कथं ? 'सूचितोमाचितः । सूचिता-सुष्ठुचिता या उमा-कीर्तिः तया आचित:-संयुक्तः । पुनः कथं ? 'रुचिररुचिरदः' रुचिररुचयः-कान्तद्युतयः रदा:-दन्ताः यस्य स तथा । पुनः कथं ? 'अतनुरवः । अतनु:-अनल्पः रवः-ध्वनियस्य स तथा । पुनः कथं० १ 'नन्दकः, आनन्दयिता । पुनः कथं० १ 'नोदको नो नोदक:-क्षेपकः, नो इति निषेधार्थे । स पार्श्व इत्यत्र तच्छ. ब्दसम्बद्धत्वाद् यच्छन्दघटनामाह-यदीया तनु:-यस्य पाचप्रभोः तनु:-शरीर आपत्रा-आपझ्यखाणकारिणी । 'अस्ति' इति क्रियाऽध्याहियते । ततः 'अस्ति' इति क्रियापदम् । का फर्जी ? 'तनुः' । किमीया ? 'यदीया' । कथम्भूता ? 'आपत्रा' । पुनः कथं०? 'देवराजीवराजीपत्रा' देवसम्बधिनी या राजीवराजी-देव( कमल )पंक्तिः सव पत्रं-वाहनं यस्याः सा तथा ॥
अथ समासः-आलानाविव ालानौ । आलानौ बाहू यस्य स आलानबाहुः 'बहुब्रीहिः ।। मधुरं च तत् मधु च मधुरमधु 'कर्मधारयः ।। मधुरमधुनि रसो यस्याः सा मधुर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org