________________
स्तुतिचतुर्विंशतिका 'बहुव्रीहिः ।। सुष्ठु उचिता सूचिता ' तत्पुरुषः' । सूचिता चासौ उमा च सूचितोमा 'कर्मधारयः' । सूचितोमया चितः सूचितो. तत्पुरुषः' । रुचिरा रुचिर्येषां से रुचिररुचयः 'कर्मधारयः । रुचिररुचयो रदा यस्य स रुचि० । बहुव्रीहिः।। देवानां राजीवानि देव० 'तस्पुरुषः ।। देवराजीवानां राजी देव. 'वत्पुरुषः । पत्रमिय पत्रम् । देवराजीवराजी पत्रं यस्याः सा देव० 'बहुव्रीहिः' । आपद्भ्यखायत इत्याफ्त्रा 'तत्पुरुषः । न तनुः अतनुः 'तत्पुरुषः ।। अतनुः रवो यस्य सा अतनुरवः 'बहुव्रीहि । इति काव्याः ॥१॥
सि. ४०-मालेति । स पार्श्वः-पाच मिधानो जिनः मा-मां पातात-अवतादित्यर्थः 'पा रक्षणे। धातोः 'आशी:प्रेरणयोः (सा० म० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तु । ' अप्.. (सा० म० १९१) । तुपस्तातडादेशः । अत्र · पातात् । इति क्रियापदम् । कः कर्ता ।' पार्थ:। स्पृशति-जानाति सर्व ज्ञानेन इति पार्श्वः । ' स्पृश संस्पर्शने ।। पृषोदरादिः । गर्मस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि कृष्णसर्पमपश्यत् इति पार्श्वः, ज्ञानेन सर्वान् भावान् पश्यतीति वा पार्श्वः, पार्श्वनामा यक्षो-वैयावृत्त्यकरः सेवकोऽस्य अस्तीति वा पार्श्वः । 'अर्श आदिभ्योऽच्' (पा०अ० ५, पा० २, सू० १२७) पार्श्वनाथस्यैकदेशः पाव वा इति यथा । के कर्मवापन्नम् ! । 'मा' माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशसिद्धौ मामित्यस्यार्थे वर्तते । पातात् कस्मात् ।। ' पातात् । पतनंपातस्तस्मात् , नरकादिषु पतनादित्यर्थः । पावः किं कुर्वन् ! । दधत्-धारयन् । कां कमेतापन्नाम् । मालां-स्रनम् । अत्राग्रे यामिति शब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याहियते । यां मालां मलीनांमधुकराणां आली-लेखा आरात्-अन्तिके-समीपे लीना-आश्लिष्टा सती अदधत्-पपो, पीतवतीत्यर्थः । 'धेट पाने' धातोः भते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासानिका पूर्ववज्ज्ञया । अत्र 'भद. धत्' इति क्रियापदम् । का की? । आली । केषाम्? । अलीनाम् । कां कर्मतापन्नाम् ? याम् । कथम् ? । आराद् । “आराद् दूरसमीपयोः" इति विश्वः । कुत्र ? । इह-जगति । पुनः कथम् ? । अरं-शीघ्रम् । कया। मुदा-हर्षेण । कथंभूता अलीनामाली ? । ' उदारा ' प्रचुरा-महती । " उदारो दातृमहतोः" इत्यमरः (लो. २०१९ ) । पुनः कथंभूता ? ।' मधुरमधुरसा । मधुरं-मिष्टं यन्मधु-पुष्परसः तस्मिन् रसः-तीमामिलायो रागो वा यस्याः सा । " मधु मद्ये पुष्परसे " इत्यमरः ( श्लो० २५४०)।" शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः" इत्यमरः ( श्लो० २७८९ )। कथंमतः पार्श्वः । 'आलानबाहुः । आलानाविव गजबन्धनस्तम्भाविव बाह-भनौ यस्य स तथा । पुनः कथंभूतः । ' सूचितोमाचितः ' सुष्ठु उचिता या उमा-कीर्ति स्तया चितो-व्याप्तः । “उमाऽतसी हैमवती हरिद्राकीर्ति कान्तिषु'' इति विश्वः । पुनः कथंभूतः ।। ' रुचिररुचिरदः ' रुचिरा-मनोहरा रुचि:-ज्योतियेषां ते रुचिररुचयः, एतारशा रदाः-दन्ता यस्य स तथा । "रोचिरुस्ररुचिशोचिरुस गो- ज्योतिरर्चिरुपधृत्यमीशवः " इति अभिधानचिन्तामणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org