________________
સ્પ૮
स्तुतिचतुर्विंशतिका
[ २३ श्रीपार्च
(का० २, श्लो. १३) । पुनः कथंभूतः ! । ' अतनुरवः । अतनुः-अनल्पः रो-ध्वनियस्य स तथा, वाण्या योजनगामित्वात् । पुनः कथंभूतः ? । नन्दक:-नन्दयिता । पुनः कथंभूतः ! । नोदकःक्षेपकः । नो इति निषेधार्थे । स पार्श्व इति स कः ! । यदीया तनुः-यस्य पार्श्वप्रमोः तनुः-शरीरं भापत्रा-आपट्यस्त्राणकारिणी, अस्तीति क्रियाध्याहारः । ततः · अस्ति' इति क्रियापदम् । का की है। तनुः । कथंभूता? । यदीया । पुनः कथंभूता? । 'आपत्रा' आपदभ्यस्रायते-रक्षतीति आपत्रा । 'सुपि०' (पा० अ० १, पा० २, सू० ४ ) इति योगविभागात् कः । पुनः कथंभूता ! । ' देवराजीवराजीपत्र' देवसम्बन्धिनी या रानीवानां-कमलानां रानी-श्रेणी सैव पत्रं-वाहनं यस्याः सा तथा । " पत्रं बाहनपक्षयोः " इत्यमरः (श्लो. २६९३) ॥ १॥
सौ० वृ०-यो रिष्टेषु-विनेषु नेमिः-चक्रं भवति तस्य पार्श्व सद्भिः सदा सेव्यमानं भवति। यहा मर्मस्थे भगवति जनन्या स्वप्ने शय्यापार्श्वे कृष्णसर्पदर्शनात् तथा पार्श्वनागकुमारशासनाधिष्ठायकत्वात् । अमेन सम्बन्धेनायातस्य प्रयोविंशतितमजिनस्य श्रीपार्श्वनाथस्य स्तुतिव्याख्यानं लिख्यते-मालेति ।
स (पार्थ:-) पार्श्वनाथजिनः मा पातात् पातात् इत्यन्वयः । 'पातात्' इति क्रियापदम् । कः कर्ता? । ('पार्च) पार्वजिनः। 'पातात् रक्षतात्। कं कर्मतापनम् ?। 'मा' विशेषादेशे अस्मच्छब्दस्य द्वितीये
नस्य मां इत्यस्य माइति निपातः! कस्मात । 'पातात 'नरकादिपा(तात् । पार्श्वः किं कुर्वन् ।। 'वषत् ' विभ्रत् । कां कर्मतापन्नाम् ? । 'माला' स्रजम् । किंविशिष्टः पार्श्वः ? । आलानौ-गजबन्धनस्तम्मी तब बाहू-भुजौ यस्य सः 'आलानबाहुः' । पुनः अलीना-भ्रमराणां आली-श्रेणिः यो माला आरा-अन्तिके अरं-अत्यर्थं मुदा हर्षेण अधत् इत्यन्वयः। 'अवधत्' इति क्रियापदम् । का की ? । 'आली'-केषाम् ! । 'अलीनाम्'। 'अदधत् ' पीतवती, धेटो दधादेशः अनद्यतन्याम् । कां कर्मतापनाम ? । 'यो ' मालाम् । कथम् ? । 'अरं' अत्यर्थम् । कया ?। 'मुद्रा' हर्षेण । कथंभूता अलीनां
आली! । 'उदारा प्रधाना-महती। पुनः किंविशिष्टा अलीनां आली ? । मधुरः-सुस्वादुः मधुः-मकरन्दः तस्य तस्मिन् वा रसो-हर्षो यस्याः सा 'मधुरमधुरसा'"तसो हर्षे जले दुग्धे, शृङ्गारादौ रसा धरा"इति महीपः। पुनः किविशिष्टः पार्श्वः ? । सु-शोभना उचिता-योग्या उमा-कीर्तिः तया चितः-व्याप्तः 'सूचितोमाचितः। “उमा धान्यविशेषे स्याद् , गौरी श्रीकीर्तिकान्तिषु" इति सुधाकलशवचनात् । पुनः किंविशिष्टः पावरुचिरा-मनोहरा रुचिः-कान्तियेषां ते तादृशारदा-दशना यस्य सः'रुचिररुचिरतः पनः किंविशिष्टः पार्श्वः ? । 'सः' सः-प्रसिद्धः। तच्छन्दो यच्छब्दमपेक्षते। सः कः? । यदीया तनु : मतिः-यस्य शरीरं आपत्रा विपद्रक्षका अस्ति इत्यन्वयः। 'अस्ति । इत्यध्याहार्यम् । 'अस्ति' इति क्रियापदम् । का की ? । 'तनुः ।। 'अस्ति ' विद्यते । किंविशिष्टा तनुः ? । 'यदीया' श्रीपार्श्वनाथसम्बधिनी । पुनः किंविशिष्टा तनुः । 'आपत्त्रा' । पुनः किंविशिष्टा तनुः ? । देवानां-सुराणां [वा] राजी. वानि-कमलानि सेषां राजी-श्रेणिः सा एवं पत्रं-वाहनं यस्याः सा 'देवराजीवराजीपत्रा ।। पुनः किंविशिषः पार्थ:? । अतनु:-महान् रव:-शब्दो यस्य सः
देशनासमये योजनगामी स्वर:-रवः इत्यर्थः । पुनः किंविशिष्टः पार्श्वः । 'नन्दकः ' आनन्दकारी । पुनः किंविशिष्टः पार्श्वः ? । 'नोदक' क्षेपका-क्लिष्टकारी। कथम् ? । 'नो' निषेधे । इति पदार्थः।।
अय समासः-आलानाविव वाहू यस्य स आलानबाहुः । मधुरं च तत् मधुच मधुर-मधु, मधुरमधुनि रखो बस्था सा मधुरमधुरसा । सु-शोभना उचिता सूचिता, सूचिता चासौ उमा च सूचितोमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org