________________
जिनस्तुतयः
स्तुतिचतुर्विशतिका सूचितोमया चितः सूचितोमाचितः । रुचिरा रुचिः येषां ते रुचिररुचयः, रुचिररुचयो रदा यस्य स रुधिररुचिरतः । देवनिर्मितानि राजीवानि देवराजीवानि, देवराजीवानां राजी देवराजीवराजी, देवराजीवराजी एव पत्रं यस्याः सा देवराजीवराजीपत्रा। आपदः-विपदः त्रायते इति आपत्ता । यस्प इयं यदीया । न तनुः अतनुः, अतनुः रवो यस्य सः अतनुरवः । नन्दयतीति नन्दकः।इति प्रथमवृत्तार्थ ॥१॥एकविंशतिवर्णमयीस्रग्धराच्छन्दसा स्तुतिरियम् ॥
दे.व्या.--मालेति । स पार्श्व:-पार्श्वनाथ: मां पातात्-रक्षतात् इत्यन्वयः।' पा रक्षणे' धातुः । 'पातात् । इति क्रियापदम् । कः कर्ता ? (पार्श्वः)पार्श्वनाथः । कं कर्मतापन्नम् ?। मास् । कस्मात् !! 'पातात्' पतन पातः तस्मात् । पतनं पदात परिभ्रंशः। किंविशिष्टः पार्श्वनाथः। .आलानबाहः, आलानं-गजबन्धनस्तम्ब: तद् बाहू-भुजी यस्य स तथा। "तोत्रं घेणुकमालानं, बन्धस्तम्भोऽशः सृणिः"इत्यभिधानचिन्तामणिः (का०४, श्लो०२९६)।पुनःकिविशिष्टः । सूचितोमाचितः'। सुतरां सुष्टु वा उचिता-योग्या या उमा-फीति तया चितो-व्याप्तः । पुनः किंविशिष्टः ?'रुचिररुचिरदः । रुचिरा-मनोहरा रुचिः-कान्तियेषां ते एवंविधा रदा-दन्ता यस्य स तथा । पुनः किंविशिष्टः । अतनुरवः' अतनु:-अनल्पो रवः-शब्दो यस्य स तथा, मेघगम्भीरघोषत्वात् । पुनः किंविशिष्टः। नन्दकः-आनन्दजनकः समृद्धिकारक इति प्राश्वःनो निषेधे। पुनः किंविशिष्टः ? नोदकः-प्रेरकः । किं कुर्वन् पार्श्वनाथः ? । दधत्-धारयन् । काम् ।। मालां-पुष्पन्नजम् । इह-अस्मिल्लोके यां मालाम् अलीनां-भ्रमराणां आली-पंकिः मुदा-हर्षेण अदधत्-पपी। 'धेट पाने 'धातुः । ' अदधत् ' शत क्रियापदम् । का कत्री ?' आली । केषाम् ? । अलीनाम् । कां कर्मतापन्नाम् ? । मालाम् । कया ? । मुदा । कथम् ! । अरम्-अत्यर्थ यथा स्यातू तथेति क्रियाविशेषणम् । किविशिष्टा आली?। उदारा-स्फारा । पुनः किंविशिष्ठा। लीना-आश्लिष्टा । कथम् ? । आरात्-शीघ्रम्, आगत्येतिशेषः। किंविशिष्ट मालाम् ! 'मधुरमधुरसाम् ' मधुर-मिट यन्मधु-मकरन्दः तस्य रसः-पुष्पनिर्यासो यस्यां सा ताम् । आल्या विशेषणमिति कश्चित् तचिन्त्यम् । यसदोर्षि. त्याभिसम्बन्धाद् यदीया तनुः-शरीरं 'आपत्रा' आपद्-विपत्तिः तस्याः सकाशात् त्रायते इति आपत्ता, वर्तत इति शेषः। किंविशिष्टा तनुः । देवराजीवराजीपत्रा' देवैर्निर्मिता या 'राजीवराजी' राजीवानि-कम लानि तेषां राजी-पंक्तिः सैध पत्रं-वाहनं यस्याः सा तथा, तदुपरि चरणविन्यासादिति भावः। "यान युग्यं पत्रं वाहं (y)" इत्यभिधानचिन्तामणिः (का०३, श्लो० ४२३)। इति प्रथमवृत्तार्थः ॥१॥
Diclerजिनेश्वराणां स्तुतिः
राजी राजीववक्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग
व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहद्या। सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा-- दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥२॥
-स्रम् ज० वि०-रामीति । सा जिनानां-तीर्थकृता राजी-श्रेणी, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, 'अधिकामात् । अधिक-उस्कटो य आयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org